________________
प्रमाणप्रकरणम्
दृष्टस्तद्वयतिरेकेण तदात्मा चेति कैतवम् ।। अथ विद्यदाद्यनित्यत्वादन्यदेव घटायनित्यत्वं यत्प्रयत्ननान्तरीयकत्वाभिन्नमुच्यते तर्हि धर्मिभेदेन धर्माणां भेदे ऽन्वयग्रहणानुपपत्तेः सर्वमनुमानमुत्सीदेद् , धूमाग्न्योस्तु कार्यकारणयो दाद्युक्तं वक्तुं धूमस्याग्नौ प्रतिबन्धो न त्व. मेधूमे, इह तु साध्यसाधनयोरव्यतिरेकान्न तथा शक्यते वक्त तथा ऽभिधाने वा नाव्यतिरेकः , सर्वथा तदात्म्यं वा त्यज्यतां वृक्षत्वानित्यत्वाभ्यां शिशपात्वप्रयत्ननान्तरीयकत्वे अनुमीयेताम् नान्तरावस्थातुं लभ्यते, यश्चायमनित्यः शब्दः कृतकत्वादिति स्वभावहेतुरुदाहृतः स कथं स्वभावहेतुः, इदं हि चिन्त्यताम् अनित्यत्वं नाम किमुच्यते किं च कृतकत्वमिति, तत्रानित्यत्वं विनाशयोगः उत्पत्तियोगश्च कृतकत्वम् , उत्पन्नस्य च भावस्य विनाशो न तूत्पाद एव विनाश इति कथं साध्यसाधनयोरव्यतिरेकः, अत्र चोदयन्ति, विनाशयोगे ह्यनित्यत्वे विनाशी शब्द इति बुद्धिः स्यान्नानित्य इति, एष्या च मिथ्याबुद्धिः शिखरिण एव कृशानुविशेषितत्य विनाशवतः शब्दस्य ग्रहीतुमशक्यत्वात् ।
अभावेन हि धर्मेण तद्वत्ता धर्मिणः कथम् ।
अभावग्रहवेलायां धर्मिणो ऽनुपलम्भनात् ।। अनित्यत्वमिति च भावप्रत्ययः कथमभावे भवेद्विरुद्धत्वात , तस्मादुभया. न्तपरिच्छिन्ना वस्तुसत्ता ऽनित्यत्वमुच्यताम् , कृतकत्वमपि सत्तेव कारणोत्पा. दिताधारा सती कथ्यते इति, एवं च सत्तैव साध्यं साधनं चेति सिद्ध स्वभावहेतुत्वम्, तदिदमनुपपन्नम्, साध्यसाधनयोस्तथात्वेनानवभासनात्, एवं युच्यमाने शब्दः सत्तावान्सत्तावत्त्वादिति प्रतीतिः स्यात् , न चैवं दृश्यते अपि तु अनित्यः शब्दः कृतकत्वादिति, अथोभयान्तपरिच्छिन्ना सत्ता साध्यो कारणनिर्वा ऽऽश्रयसमवायिनी च साधनमित्युच्यते तदेतदघटमानम् , विनाशरूपस्यान्तस्य तदानीमविद्यमानत्वेन सत्तापरिच्छेदकत्वाभावात् ।
बुद्धिस्थेनाथ तेनास्याः परिच्छेदो ऽभ्युपेयते । शब्दस्यैव परिच्छेदो विनाशेनास्तु ताशा ।। धर्म: समानकालो ऽपि बुद्धयैव विषयीकृतः ।
तद्विशेषणतां याति तथा भाव्यपि यास्यति ।। तदेवं विनाशी शब्द इति विशेषणविशेष्यभावसिद्धेः किं सत्तासाध्यकल्पनया, यत्पुनरभिहितम् अभावे भावप्रत्ययस्त्वतादिन स्यादिति तदत्यन्तानभि. ज्ञस्य चोद्यम , शब्दप्रवृत्तिनिमित्तस्य तत्र भावप्रत्ययेनाभिधानात् , यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेश इति अभावे ऽपि अभावत्वमिति दर्शनात्, तस्माद्बुद्धिस्थविनाशयोग एवानित्यत्वम् , कृतकत्वमप्युत्पत्तियोग एव न सत्ता, कारणोत्पादिताश्रयावच्छेदे तु तस्या इष्यमाणे धर्मिण एव तदवच्छेदो भव.
१४ न्या०