________________
१०६
न्यायमअर्याम् त्विति किं सोपानान्तरेण।
ननूत्पादविनाशाख्यं न धर्मद्वयमन्वयि ।
यद् घटे नास्ति तच्छब्दे यच्च शब्दे न तद् घटे ।। अर्थक एव धर्मः सर्वभावसम्बन्धी इष्येत तर्हि । ' एकभावसमुत्पादे सर्वोत्पादः प्रसज्यते ।
एकप्रलयकाले च सकलप्रलयो भवेत् ।। तस्मात्सत्तापक्ष एव वरम् , नैतदेवम् , धर्मिभेदे ऽपि धर्माणां तुल्यरूपा. रणामवभासात् ।
न घटादिस्वरूपं हि नाश इत्यवकल्पते । येनानन्वयदोषः स्यात् तद्भेदोपनिबन्धनः ॥ एकत्वमपि धर्मस्य नास्ति सर्वेषु धर्मिषु ।
येनैकध्वंससमये सकलध्वंससङ्करः ।। भिन्नत्वे ऽपि च धर्माणां समानरूपत्वेनावभासमानत्वादन्वयग्रहणादिकायविरोधः, अत एव समान्यमन्तरेणापि समानधर्ममूलान्वयादिव्यवहारोपपत्तेस्तत्र न सूत्रकारेण सामान्यग्रहणं कृतम् अपि तु साधर्म्यग्रहणमुपात्तम् , उदा. हरणसाधम्योत्साध्यसाधनं हेतुः साध्यसाधम्योत्तद्धर्मभावी दृष्टान्त उदाहरणमिति तेन विनाशोत्पादधर्मयोः साध्यसाधनभावात् तयोश्च भेदाद् अनित्यः शब्दः कृतकत्वादिति न स्वभावहेतुरिति सिद्धम् , कार्यहेतुरपि न सम्भवति भवतां हि पक्षे क्षणयोर्वा कार्यकारणभावो भवेत्सन्तानयोर्वा ।
क्षणयोर्नेति वक्ष्यामः क्षणभङ्गनिराकृतो।
सम्भवन्नपि दुर्लक्ष्यः सूक्ष्मत्वाञ्च तयारसो॥ धूमाग्निसन्तानयोस्तु अवास्तवत्वादेव नास्ति कार्यकारणभावः अर्थक्रियाकारित्वमेव वस्तुत्वम् , यदि धूमः कार्यत्वादनलमनुमापयेत् कटुमलिनगगनगामित्वादिधमैरपि तस्य गमको भवेत् , न च कथं चित्तत्कार्यत्वं कथं चिदतकार्यत्वं च धर्मस्योपपन्नम् , सर्वात्मकस्य तदन्वयव्यतिरेकानुविधायिप्रभवत्वाद् अथ सर्वात्मना ऽपि तत्कार्यत्वे ।।
धूमत्वमात्रमेवाग्निसहचारीति मन्यसे । सहचारित्वमेवास्तु तदुत्पत्तिकथा वृथा ।
साहचर्यस्यानुमितिहेतुत्वम्ननु भवद्भिरपि कार्यानुमानमङ्गीकृतमेव यथा शेषवदिति व्याख्यास्यते, यथाऽह कणव्रतः कार्य करणसंयोगि समवायि विरोधि चेति लैङ्गिकमिति, न साहचर्योपलक्षणार्थत्वात्, धूमामयोनदोपूरयोर्वा न कार्यकारणभावाद्गमकत्वं