________________
प्रमाणप्रकरणम्
ययोक्तन न्यायेन अपि तु नित्यसाहचर्यान्नियमादेवेति, विरोधिनाः कथं साहचर्यमिति चेत् सदसतोगम्यगमकभावाद्विरोधिनोरेकतरदर्शनादन्यतरस्याभावो ऽनुमीयते भावाभावयोश्च साहचर्य तयोरस्त्येव / कणादसूत्रे कार्यादिग्रहणं चोपलक्षणम् ।
अन्येषामपि हेतूनां भूम्नां जगति दर्शनात् । ५ सूर्यास्तमयमालोक्य कल्प्यते तारकोदयः ।। पूर्णचन्द्रोदयाबृद्धिरम्बुधेरवगम्यते । उदितेनानुमीयन्ते सरितः कुम्भयोनिनः । शुष्यत्पुलिनपर्यन्तविश्रान्तखगपङ्क्तयः ।। पिपीलिकाण्डसञ्चारचेष्टानुमितवृष्टयः। १० भवन्ति पथिकाः पर्णकुटीरकरणोद्यताः ।। अन्ये ऽपि सौगतोद्गीतप्रतिबन्धद्वयोज्झिताः । कियन्तो बत गण्यन्ते हेतवः साध्यबोधकाः ॥ लोकप्रसिद्धतादात्म्यतदुत्पत्त्यवधीरणात् ।।
डिम्भहवाकसदृशं स्वमत्या तत्समर्थनम् ॥ १५ अतश्च तत्स्वभावस्तत्कायमित्यादि व्यसनमात्रम्, अपि च
व्यावृत्त्योलिङ्गलिङ्गित्वं प्रतिबन्धश्च वस्तुनोः ।
विकल्पैर्ग्रहणं तस्य कथं सङ्गच्छतामिदम् ।। उक्तं चैतत्प्रथमे एवाह्निके इत्यलं प्रसङ्गेन ।
तस्मादनुमितिहेतुः संबन्धः साहचर्यमिति सिद्धम् , न तु शौद्धोदनिशिष्यपरिकल्पितमुभयमप्येतत् ।
यत्त्वभ्यधीयत परैः किमधीनमस्य तत्साहचर्यमिति तत्र विधिः प्रमाणम् । तादात्म्यतजननयोरपि चैष तेषां
तुल्यो ऽनुयोग इति किं विफलैः प्रलापैः ।। नियमो व्याख्यातः स्मृतेरिति को ऽर्थः, उच्यते
नियमो हि गृहीतो ऽङ्गमनुमेयप्रमा प्रति । न नारिकेलद्वीपस्थो धूमादग्निं प्रपद्यते ॥ साध्यानुमितिवेलायां न चास्ति नियमग्रहः । नियमग्रहकाले च न साध्यमनुमीयते ॥ तेन पूर्वगृहीतः सन्निदानी स्मृतिगोचरः ॥
नियमः प्रतिपत्त्यङ्गं तथा ऽवगतिदर्शनात् । द्वितीयलिङ्गदर्शने सत्यपि नियमस्मरणमन्तरेण साध्यप्रमितेरनुत्पादात् ।