________________
१०८
न्यायमअर्याम् यत्रापि विषये ऽभ्यस्ते नैव सञ्चत्यते स्मृतिः ।
तत्राप्यनेन न्यायेन बलात्सा परिकल्प्यते ॥ अत एव के चन प्रत्युत्पन्नकारणजन्यां स्मृतिमेवानुमानमुक्तवन्तः प्रत्युत्पन्नं च कारणं कुत्र चिद्धिर्मिपरोक्षस्यापि चेश्वरादृष्टेन्द्रियादेरनुमेयतां वक्ष्यामः ।
तस्माद्यथोचिताल्लिङ्गाद्यथोक्तनियमस्मृतेः । यथोक्तलिङ्गिविज्ञानमनुमानमिति स्थितम् ॥
अनुमानप्रामाण्याक्षेपःननु सत्यनुमानस्य प्रामाण्ये लक्षणाश्रयः ।
कार्यों विचारो न पुनः प्रामाण्यं तस्य युज्यते । तथा चाहुः प्रमाणस्यागौणत्वादनुमानार्थनिश्चयो दुर्लभः पक्षधर्मादिरूपं हि लिङ्गस्य बलाद् गौण्या वृत्त्या दर्शयितव्यम् , धर्मे हि साध्ये न हेतोःपक्षधर्मत्वम् अग्निधर्मत्वाद् धूमस्य धर्मिणि साध्ये हेतोरनन्वयित्वम् , न हि यत्र धूम. स्तत्र पर्वत इत्यन्वयः द्वये तु साध्ये द्वयमपि नास्ति, न हि दहनमहीध्रयोः धर्मों धूमः नाप्येवमन्वयः यत्र धूमस्तत्र पर्वताग्नी इति, धर्मविशिष्ट धर्मिणि साध्ये त. दुभयमघटमानमेव, नाग्निविशिष्टधराधरधर्मतया धूमः प्रथम उपलब्धुं शक्यते न चाप्येवमन्वयः यत्र धूमस्तत्राग्निमान् पर्वत इति तस्मादवश्यं पक्षधर्मत्वान्व. यव्यवहारसिद्धये धर्मविशिष्टे धर्मिणि रूढः पक्षशब्दः तदेकदेशे धर्मिणि गौण्या वृत्त्या वर्णनीयः, अन्वयप्रदर्शनसमये च तदेकदेशे तथैव योजने ऽतिगौणलक्षणत्वादिन्द्रियार्थसन्निकर्षजत्वादिवदगौणलक्षणत्वाभावादनुमानमप्रमाणम् । अपि च
विशेषे ऽनुगमाभावात्सामान्ये सिद्धसाधनात् । तद्वतो ऽनुपपन्नत्वादनुमानकथा कुतः ॥ साहचर्य च सम्बन्धे विस्रम्भ इति मुग्धता। शतकृत्वो ऽपि तद्दृष्टो व्यभिचारस्य सम्भवात् ।। देशकालदशाभेदविचित्रात्मसु वस्तुषु। । अविनाभावनियमो न शक्या वस्तुमाह च ।।' "अवस्थादेशकालादिभेदाद्भिन्नासु शक्तिषु । भावानामनुमानेन प्रसिद्धिरतिदुर्लभा । भवन्नप्यविनाभावः परिच्छेत्तौं न शक्यते । जगत्रयगताशेषपदार्थालोचनाद्विना ॥ न प्रत्यक्षीकृता यावळूमाग्निव्यक्तयो ऽखिलाः । तावत्स्यादपि धूमो ऽसौ यो ऽनग्नेरिति शङ्कयते ।।