________________
प्रमाणप्रकरणम्
१०९
ये तु प्रत्यक्षतो विश्वं पश्यन्ति हि भवादशः । किं दिव्यचक्षुषामेषामनुमानप्रयोजनम् ।। सामान्यद्वारको प्यस्ति नाविनाभावनिश्चयः । वास्तवं हि न सामान्यं नाम किं चन विद्यते ॥ भूयोदर्शनगम्या ऽपि न व्याप्तिरवकल्पते। . सहस्रशो ऽपि तद्दष्टे व्यभिचारावधारणात् । बहुकृत्वो ऽपि वस्त्वात्मा तथेति परिनिश्चितः । देशकालादिभेदेन दृश्यते पुनरन्यथा ॥ भूयो दृष्ट्रो च धूमो ऽग्निसहचारीति गम्यताम् । अननौ तु स नास्तीति न भूयोदर्शनाद्गतिः ।। न चापि दृष्टिमात्रेण गमकाः सहचारिणः । तत्रैव नियतत्वं हि तदन्याभावपूर्वकम् ।। नियमश्वानुमानाङ्गं गृहीतः प्रतिपद्यते। ग्रहणं चास्य नान्यत्र नास्तितानिश्वयं विना ।। दर्शनादर्शनाभ्यां हि नियमग्रहणं यदि । तदप्यसदनग्नौ हि धूमस्येष्टमदर्शनम् ।। अनग्निश्च कियान्सर्व जगज्ज्वलनवर्जितम् । तत्र धूमस्य नास्तित्वं नैव पश्यन्त्ययोगिनः ।। तदेवं नियमाभावात्सति वा ज्ञप्त्यसम्भवात् । अनुमानप्रमाणत्वदुराशा परिमुच्यताम् । अनुमानविरोधो ऽपि यदि चेष्टविघातकृत् । विरुद्धाव्यभिचारो वा सर्वत्र सुलभोदयः ।। अत एवानुमानानामपश्यन्तः प्रमाणताम् । तद्विसम्भनिषेधार्थमिदमाहुर्मनीषिणः ॥ हस्तस्पर्शादिना ऽन्धेन विषमे पथि धावता।
अनुमानप्रधानेन विनिपातो न दुर्लमः ।। अपि च
यत्नेनानुमितो ऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥
अनुमानप्रामाण्यसमर्थनम्-- अत्राभिधीयते, किमयमनुमानस्वरूपाक्षेप एव क्रियते उत तत्तत्तार्किकोपल. क्षिततल्लक्षणाक्षेप इति तत्रानुमानस्वरूपंचाशक्यनिह्नवमेव सर्वलोकप्रसिद्धत्वात् ।