________________
१.१०
न्यायमञ्जयाम् अबलाबालगोपालहालिकप्रमुखा अपि । बुध्यन्ते नियतादर्थादर्थान्तरमसंशयम् । अनुमानापलापे तु प्रत्यक्षादपि दुर्लभा।
लोकयात्रेति लोकाः स्युलिखिता इव निश्चलाः ।। प्रत्यक्षदृष्टमपि पदार्थजातं तज्जातीयत्वलिङ्गव्यापारेण सुखसाधनम् इतर. कारणमिति वा निश्चित्य तदुपाददते जहति वा लौकिकाः, अथाविचारितरमणीयतैव तत्त्वं न तु लक्षणनियमः शक्य क्रियस्तस्येति लक्षणाक्षेपो ऽयमुच्यते सोऽप्ययुक्तः यतः,
यं कं चिदर्थमालोक्य यः कश्चिन्नावगम्यते । कं चिदेवाक्षिपत्यर्थमर्थः कश्चिदिति स्थितिः ।। तत्र वस्तुस्वभावो ऽयमिति पादप्रसारिका । दृश्यते ह्यविनाभूतादर्थादर्थान्तरे मतिः ।। अतो यदर्शनाद्यत्र प्रतीतिरुपजायते । तयोरस्त्यर्थयोः कश्चित्संबन्ध इति मन्महे ।। तदात्मतातदुत्पत्ती न श्रद्दधति तद्विदः। साहचर्य तु सम्बन्ध इति नो हृदयङ्गमम् । तस्मिन्सत्येव भवने न विना भवनं ततः । अयमेवाविनाभावो नियमः सहचारिता । किंकृतो नियमो ऽस्यास्मिन्निति चेदेवमुत्तरम् । तदात्मतादिपक्षे ऽपि नैष प्रश्नो निवत्तते ॥ ज्वलनाज्जायते धूमो न जलादिति का गतिः । एवमेवैतदिति चेत्साहचर्ये ऽपि तत्समम् ॥ तर्कस्य यावान्विषयः स तावति निरूप्यते । वस्तुस्वभावभेदे तु न तस्य प्रभविष्णुता॥ अयं च विषमो युक्तयेदुक्तं नियमाद्विना।
नार्थादर्थान्तरे ज्ञानमतस्तस्य प्रकल्पनम् ।। ततः परं तु नियमो ऽप्येष किंकृत इति न युक्तिः प्रभवति तादास्यतदुत्पत्योरनुपपन्नत्वादतो नियम एव विरच्यते, न च प्रतिभामात्रमानुमानिकी प्र. मितिरिति वक्तुं युक्तम् , नियतात्कुतश्चिदेव वस्तुनि प्रतीतिदर्शनादित्युक्तत्वात् , नियमश्च यद्यगृहीत एव प्रतीत्यङ्गं भवेन्नारिकेलद्वीपनिवासिभिरपि धमदर्शनात्कृशानुरनुमीयेत नचैवमस्तीति नियमग्रहणमपीक्षणीयम् , यच्च विकल्पितम् अ. शक्यं तद्ग्रहणमिति, तत्र के चिदाचक्षते मानसं प्रत्यक्ष प्रतिबन्धग्राहीति, प्रत्यक्षानुपलम्भाभ्यामनलसहचरितमनग्नेश्च व्यावतमानं धूममुपलभ्य विभाव