________________
प्रमाणप्रकरणम्
१११ सौ नियतो धूम इति मनसा प्रतिपद्यते ।
मनश्च सर्वविषयं केन वा नाभ्युपेयते ।
असन्निहितमप्यर्थमवधारयितुं क्षमम् ।। न च सकलत्रिभुवनविवरनिरुद्धधूमाग्निव्यक्तिसार्थसाक्षात्करणमुपयुज्यते ज्वलनत्वादिसामान्यपुरःसरतया व्याप्तिग्रहणात् , यत्तुक्तं सामान्यं वास्तवं ना. स्तीति तच्छब्दार्थचिन्ताप्रसङ्गे प्रतिसमाधास्यते । __ अपरे पुनः योगिप्रत्यक्षकल्पं यौक्तिकं सम्बन्धग्राहि प्रत्यक्ष प्रतिपेदिरे किल धमत्वाग्निस्वसामान्यपुरस्कारेण व्याप्यव्यापकयोरन्वयेो नाम गृह्यताम, व्यतिरेकस्त्वनग्निभ्यो धूमस्य ग्रहीतव्यः, अनग्नयश्चातिवितताः न च तेष्वनग्नित्वं नाम सामान्यमस्ति, तेन समस्तत्रैलोक्यान्तर्गताग्न्यनग्निगतान्वयव्यतिरे. कपाहिप्रत्यक्षव्यतिरेकेण न प्रतिबन्धोऽवधृतो भवेत् अनवधृतश्च न प्रमा. ङ्गमस्ति च प्रमेति युक्तं बलात्प्रतिबन्धग्राहकमेकस्मिन् क्षणे प्रत्यक्षमिदमशेषव्यक्तिविषयमसंवेद्यमानमपि कल्पितमिति यौक्तिकमुच्यते ।
अन्ये पुनः अत एव तत्कल्पनाभयाद्भूयोदर्शनपरिच्छिन्नसामान्यपुरःसरान्वयमनपेक्षितव्यतिरेकनिश्चयमेव लिङ्गं गमकमभ्युपागमन , यथोक्तम् , मम त्वदृष्टिमात्रेण गमकाः सहचारिण इति, अयमाशयः
भूयोदर्शनतस्तावदुदेति मतिरीदृशी।
नियतो ऽयमनेनेति सकलप्राणिसाक्षिका ॥ तावता च गमकत्वमौत्सर्गिकं सिध्यति मीमांसकानां तु विपक्षे दर्शनं बाधकः प्रत्ययः न च सोस्ति नाद्य यावदनग्नौ धूमो दृष्टः, अनुत्पन्ने ऽपि बाध. के तदाशङ्कनमयुक्तमित्युक्तं तैः, दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिकेति, एत्तत्तु न चारु, व्यतिरेकनिश्चयमन्तरेण प्रतिबन्धग्रहणानुपपत्तरित्युक्तत्वात, ज्ञापकत्वाद्धि नियमः स्वग्रहणमपेक्षते, नियमश्चायमुच्यते यत्तस्मिन्सति भव. नं ततो विना न भवनमिति भूयोदर्शनं तच्च तस्मिन्सति भवनमित्यन्वयमात्रपरिच्छेदादर्धगृहीतो नियमः स्यात् ततो विना न भवनमित्यस्यार्थस्यापरिच्छेदादिति,
अपरे पुनः अनग्नित्वसामान्यमन्तरेणापि योगिप्रत्यक्षकल्पनामकुर्वन्त एव मानसप्रत्यक्षगम्यमन्वयव्यतिरेकमाहुः, धूमाग्निसामान्ये तावत्सहचरिते उपलब्धे त्तद्वत्तदभावावपि सहचरितावुपलभ्येते एव,धमत्वसामान्यस्यानग्नौ ज. लादावदर्शनात् , सर्वगतत्वे ऽपि सामान्यानां वृत्तिभेदो नियामक इति वक्ष्यते यद्यपि चानग्नित्वाद्यभावसामान्यं नास्ति तथा ऽपि प्रतिषेध्याग्नित्वसामान्यानु. गमसिद्धैव तदभावानुगमग्रहणं सिध्यति सकलव्यक्तिज्ञानमनङ्ग व्याप्तिनिश्चये ।
भावसामान्ययोर्यद्वत्तथैव तदभावयोः ।