________________
११२
न्यायमञ्जर्याम्
भावयोः साहचर्य यदन्वयं तत्प्रचक्षते ॥ व्यतिरेकं तु मन्यन्ते साहित्यं तदभावयोः । साध्यसाधनभावस्तु भवेद्यत्राप्यभावयोः॥
तयोरेवान्वयस्तत्र व्यतिरेकस्तु भावयोः । तदेवमभावान्वयवद्भावव्यतिरेको ऽपि प्रत्यक्षगम्यो भवत्येव ।
इयानेव विशेषस्तु भावयोर्याशी ययोः ।
ज्याप्यव्यापकता सैव व्यत्यस्ता तदभावयोः॥ अभावयोस्तु गम्यगमकभावे भावयोर्व्याप्तिव्यत्ययो द्रष्टव्यः, एवं च प्रतिषेध्यानुगमपूर्वकसामान्यभावद्वयानुगमप्रत्ययोपपत्तेरन्वयतद्यतिरेकनिश्चये ऽपि न योगिप्रत्यक्षमुपयुज्यते भावाभावसाहचर्यमवधार्य मनसा नियमज्ञानसिद्धे. रित्यलं निर्बन्धेन, तस्मानियमवत्तद्ग्रहणोपायो ऽप्यस्तीति सिद्धम्।
गृहीते नियमे यावत्पुनः क चिद्धर्मिणि धूमादेलिङ्गस्य प्रहणं न वृत्तं तावन्न भवति लिङ्गिनो ऽवगतिरिति सम्बन्धग्रहणकालापेक्षयो द्वितीयं तल्लिङ्गदर्शनमा पेक्षितव्यम् , सैवेयं पक्षधर्मतोच्यते, पक्षधर्मान्वयव्यतिरेकनिश्चये सत्यपि प्रय. क्षागमविरोधेन प्रतिपक्षोपनिपातेन वा न गमकत्वमिति तदपरं लक्षणद्वयमुपदि. ष्टम् , अबाधितविषयत्वम् असत्प्रतिपक्षत्वं चेति, तदेवमनुभवसिद्धत्वादनुमान स्वरूपमिव तस्य लक्षणमपि तान्त्रिकविरचितमवाचकं लक्षणं तत्स्वयमनवद्यमा वेद्यताम् , न तु तद्वेषेण लक्ष्यमप्यनुमानं निन्होतुं युक्तम् , ___ यत्पुनरभाणि प्रमाणस्य गौणत्वादनुमानादर्थनिश्चयो दुर्लभ इति तन्न बुद्ध्यामहे, न हि प्रमाणस्य किं चिद्गौणत्वमिह पश्यामः, पक्षधर्मादिपदानि यदि नाम व्याख्यातृभिगौणानि प्रयुक्तानि किमेतावता प्रमाणं गौणी. भवेत, शब्दान्तरेण हि तल्लक्षणाभिधाने न कश्चिद्गौणतादिप्रमादः ।
यदप्यवादि विशेषे ऽनुगमाभावात्सामान्ये सिद्धसाधनादिति तदप्यसाधु, साध्यस्य मत्वर्थस्य दर्शितत्वात् ,
यदपि अवस्थादेशकालादिभेदादित्यभ्यधायि तदपि न भयावहम् , सम्यग. वधृतायां व्याप्तौ विप्लवाभावात् , प्रमातुरेव तत्र तत्रापराधो नानुमानस्येति,
यदपि व्याहारि विरुद्धानुमानविरोधयोः सर्वत्र सम्भवात्कुत्र चिच्च विरु. द्धाव्यभिचारिण इष्टविघातकृतश्च सुलभत्वादिति, तदप्यालजालम् , प्रयोजक. हेतौ प्रयुक्ते सत्येवम्प्रायाणामनवकाशत्वात् ।
सद्वितीयप्रयोगास्तु न भवन्ति प्रयोजकाः ।
उत्प्रेक्षामात्रमूलत्वाद्धेत्वाभासा भवन्ति ते । इति वक्ष्यामः।
न विशेषविरुद्धश्च न चास्तीष्टविघातकृत् ।