________________
प्रमाणप्रकरणम्
हेतौ सुप्रतिबद्धे हि नैताः सन्ति विडम्बनाः ॥ तादृशा चानुमानेन पुंसो ऽर्थमधिगच्छतः । नान्धेन तुल्यता हस्तस्पर्शानुमितवम॑ना ।। यत्नेनानुमितो यो ऽर्थः कुशलैरनुमातृमिः ।
अभियोगशतेनापि सो ऽन्यथा नोपपाद्यते ॥ सुशिक्षिततराः प्राहुः द्विविधमनुमानम् , किं चिदुत्पन्नप्रतीति किं चिदुत्पा. द्यप्रतीति ईश्वराद्यनुमानं तु उत्पाद्यप्रतीति ।
तत्र धूमानुमानादेः प्रामाण्यं केन नेष्यते । अतो हि साध्यं बुध्यन्ते तार्किकैरक्षता अपि ।। यत्त्वात्मेश्वरसर्वज्ञपरलोकादिगोचरम् । अनुमानं न तस्येष्टं प्रामाण्यं तत्त्वदर्शिभिः॥ ऋजूनां जायते तस्मान्न तावदनुमेयधीः । यावत्कुटिलितं चेतो न तेषां विटतार्किकैः ।। एवं तु कथयद्भिस्तैः परं नास्तिक्यमात्मनः ।
ख्याप्यते स्म जडत्वं वा नानुमानाप्रमाणता ।। न हि सम्बन्धग्रहणोपायवैचित्र्यादप्रमाणता भवितुमर्हति ।
आगमेनानुमानेन तर्कव्युत्पादनेन वा । प्रत्यक्षेण गृहीतो वा सम्बन्धो न विशिष्यते ॥ ईश्वराद्यनुमानानां तत्प्रसङ्गे सविस्तरम् । द्रढिमानं च वक्ष्याम इत्यलं बहुभाषितैः ।।
प्रमाणमुपगम्यतां तदनुमानमेवंविधैरविप्लुतपराक्रमं भवदुदीरितैर्दूषणैः । अनभ्युपगमे पुनर्विगतचेष्टिताः प्राणिनो भवेयुरुपलेोपमा इति हि पूर्वमावेदितम् ।।
अनुमानलक्षणसूत्रार्थ:अथेदानी सूत्रमनुसरामः, तत्पूर्वकमित्यादि, अनुमानमिति लक्ष्यनिर्देशः, तत्पूर्वकमिति लक्षणम्, तदिति सर्वनाम्ना प्रक्रान्तं प्रत्यक्षमवमृश्यते तत् पूर्व कारणं यस्य तत्तत्पूर्वकम् , एतावत्युच्यमाने निर्णयोपमानादौ तत्पूर्वके प्रसङ्गो न व्यावर्त्तते इति तद्यावृत्तये द्विवचनान्तेन विग्रहः प्रदर्शयितव्यः, ते द्वे प्रत्यक्षे पूर्व यस्येति यदेकमविनाभावग्राहि प्रत्यक्षं व्याख्यातं यच द्वितीयं लिङ्गदर्शनं ते द्वे प्रत्यक्षे अनुमानस्यैव कारणं नोपमनादेः, तत्र प्रतिबन्धग्राहि प्रत्यक्षं स्मरणद्वारेण तत्कारणं लिङ्गदर्शनं तु स्वत एव ।
१५ न्या०