________________
११४
न्यायमअर्याम्
ननु प्रत्यक्षमात्रस्य प्रकृतत्वात्प्रकृतावमर्शित्वाच्च सर्वनाम्नः कुतोऽयं विशेषप्रतिलाभः, उच्यते-उदाहरणसाधर्म्यात्साध्यसाधनं हेतुरिति वक्ष्यते, हेतुरेव चानुमानं यदिह लक्ष्यं निर्दिष्टम् , न चागृहीतमुदाहरणसाधर्म्यं तद्वैधम्य वा साध्यसाधनं भवतीति तद्ग्रहणेपायो ऽपेक्षितव्यः, प्रत्यक्षव्यतिरिक्ततवगमो. पायपरिकल्पने चानवस्थादूषणमसकृदाभिहितमिति प्रत्यक्षस्यैव तदुपायत्वमतः अनुमानकारणभूतप्रत्यक्षापेक्षया प्रत्यक्षमात्रप्रक्रमे ऽपि सर्वनाम्ना तद्विशेष प्रा. क्षिप्यते यत्प्रतिबन्धप्राहि प्रत्यक्षं यच्च द्वितीयं लिङ्गदर्शनमिति,
ननु प्रत्यक्षविशेषद्वयपूर्वकत्वमनुमानाभासेष्वपि सव्यभिचारविरुद्धादिषु सम्भवतीत्यतिव्याप्तिः मैवम्-हेतुलक्षणेन साध्यसाधनग्रहणेन तत्प्रतिक्षेपात् प्रतिबन्धस्वरूपं हि तत्रैव निपुणमभिधास्यते इह तु तद्ग्रहणेापायमात्रमुच्य. ते सम्यक् प्रवृत्ते च प्रतिबन्धप्राहिणि प्रत्यक्ष व्याप्तिविप्लवाभावान्नानुमानाभा. सप्रसङ्गः, सामान्य लक्षणानुवादेन च विशेषलक्षणेवण्यमाने तत एव प्रमाणाभासव्युदाससिद्धेः केवलमिदानी समानजातीयोपमानादिव्यच्छदो वचनीय इति स एव तत्पूर्वकपदेनोपात्तः अर्थोत्पन्नमव्यभिचारि व्यवसायात्मकमिति फलवि. शेषणानां सर्वप्रमाणेष्वनुवृत्तेः।
युगपञ्च क चिन्नास्ति व्यापारः शब्द लिङ्गयोः ।
अतो नाव्यपदेशत्वविशेषणमिहार्थवत् ।। द्वयोरपि च शब्दलिङ्गयोः ज्ञापकत्वेन स्वरूपग्रहणापेक्षत्वाज ज्ञानायोगपधेन च युगपद्ग्रहणासम्भवात् ।
नन्वेवं निरस्यतामतिव्याप्तिः अव्याप्तिस्तु कथं निरसिष्यते आगमादि. पूर्वकाणमनुमानानामसंग्रहात्, तेष्वपि मूलभूतं प्रत्यक्षमेव कारणमिति के चिदाहुः । यथोक्तम्
यत्राप्यनुमिताल्लिङ्गाल्लिङ्गिनि ग्रहणं भवेत् ।
तत्रापि मौलिकं लिङ्ग प्रत्यक्षादेव गम्यते ।। (१) इति, यद्वा प्राधान्याभिप्रायेण प्रत्यक्षपूर्वकत्वमुच्यते न नियमार्थमिति नाव्याप्तिः, तानीति वा पुनस्तावदवबोधाय विग्रहः कर्तव्यः तानि प्रत्यक्षादीनि पूर्व यस्येति, यद्यपि प्रत्यक्षमेव लक्ष्यत्वेन प्रस्तुतं तथा ऽपि व्यवच्छेद्य तयाऽनु. मानादीनामपि प्रकृतत्वं न वार्यते।
अत्र चोदयन्ति-तदिति करणावमर्शों वा स्यात् फलावमर्शो वा, करणावमर्श इन्द्रियादिकरणपूर्वकं ज्ञानं तत्फलं तत्पूर्वकं चानमानमिति पूर्वशब्दस्य द्विः पाठः स्यात् , स चाश्रुत्वा कल्पनीयः फलावमर्श तु प्रत्यक्ष
(१) श्लोकवार्तिकेऽनुमानग्रन्थे श्लोकः १७१ ।