SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् फलपूर्वकमनुमानमिति तत्पूर्वकशब्दस्य फलवचनस्यानुमानशब्देन करणवाचिना सह सामानाधिकरण्यं न स्यात्तत्पूर्वकमनुमानमिति प्रत्यक्षफलेन हि लिङ्गदर्शनेन परोक्षार्थप्रतिपत्तिरुपजन्यते सा चानुमानफलं नानुमानमिति, उच्यते-उभयथा ऽपि न दोषः, कारणावमर्श तावदिन्द्रियादिकरणपूर्वकं तत्फलं लिङ्गदर्शनं यत् तदेव परोक्षार्थप्रतिपत्तौ करणमनुमानमिति न द्विः पूर्वकशब्दस्य पाठ उपयुज्यते, फले ऽप्यवमृश्यमाने प्रत्यक्षफललिङ्गदर्शनपूर्वकं य. दविनाभावस्मरणं तदनुमानं करणमेव ततः परोक्षार्थप्रतिपत्तः, यदुक्तं प्रत्युत्पनकारणजन्या स्मृतिरनुमानमिति स्पष्टमेव सामानाधिकरण्यम्, फले वा अनुमानशब्दं वर्णयिष्यामः अनुमितिरनुमानमिति, यतःशब्द वा अध्याहरिष्यामः प्रत्यक्षफलपूर्वकं परोक्षार्थप्रतिपत्तिरूपं फलं यतो भवति तदनुमानमिति, अत्र हि प्रथमं लिङ्गदर्शनं ततः प्रतिबन्धस्मरणं ततः केषां चिन्मते परामर्शज्ञानं ततः साध्यार्थप्रतीतिस्ततःप्रत्यक्षलक्षणावसरवर्णितेन क्रमेण हेयादिज्ञानमितीयति प्र. तीतिकलापे यथोपपत्ति कार्यकारणभावो वक्तव्य इत्येवं तत्पूर्वकपदमेव केवल. मनुमानलक्षणक्षममिति गुरवो वर्णयां चक्रुः । सूत्रस्थस्य त्रिविधपदस्य कृत्यम् -- अन्ये पुनः उपमानायतिव्याप्तिव्युदासाय त्रिविधग्रहणं व्याख्यातवन्तः, तत्पूर्वकमनुमानमित्युच्यमाने सति उपमानादौ प्रसङ्ग इति त्रिविधग्रहणम् , लिङ्गं वक्ष्यमाणकार्यादिभेदाद्वा त्रिविधं पक्षधर्मादिरूपत्रययोगाद्वा त्रिरूपं त्रिविधमुच्यते, लिङ्गे च त्रिविधे सति तदालम्बनज्ञानमुपचारात्रिविधमभिधीयते, तेन प्रत्यक्षपूर्वकं त्रिविधलिङ्गालम्बनज्ञानमनुमानमित्युक्ते सति नातिव्याप्तिः। __ ननु पूर्ववदादिभिः शब्दैः कार्यादिभेदवर्णनं ज्ञास्यामः पक्षधर्मादिरूपत्रयं तु कथमेभिः शब्दैः प्रतिपाद्यते इति, ___ अत्राहुः वादादिकथात्रयेऽपि पूर्वमुपादीयमानत्वात्पक्षः पूर्वशब्देनोच्यते सो ऽस्यास्त्याश्रयत्वेनेति पूर्ववल्लिङ्गमित्येवमनेन पदेन पक्षधर्मत्वमुक्तं भवति, पक्षे उपयुक्ते सति शेषः सपक्षा भवति सो ऽस्यास्त्याश्रयत्वेनेति शेषवत् , एव. मनेन सपक्षे वृत्तिरुक्ता भवति, सामान्यतोदृष्टमित्यनेन विपक्षायावृत्तं लिङ्गमुच्यते, कथम् , अकारप्रश्लेषात् सामान्यतो ऽदृष्टमिति तिष्ठतु तावद्विशेषः सामान्यतो ऽपि न दृष्टम् , क्वेति पक्षसपक्षयोवृत्तेरुक्तत्वात्परिशेषाद्विपक्षे सामान्यतोऽपि न दृष्टमित्यवतिष्ठते इत्थं त्रिरूपं लिङ्गमेभिः शब्दैरुक्तं भवति, तदालम्बनं ज्ञानमनुमानम् । तदेवं लक्षणे कश्चित्सर्व सूत्रमयोजयत् । एवं तु ख्यापितं न स्यात्सूत्रकारस्य कौशलम् ।।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy