________________
न्यायमअर्याम् किं च पञ्चलक्षणमिह शास्त्रे अभ्युपगम्यते इति त्रिरूपे तस्मिन्वर्ण्यमाने कालात्ययापदिष्टप्रकरणसमयोः प्रसङ्गो न व्यावर्त्तते इति, तस्मात्तत्पूर्वकपदमेव लक्षणप्रतिपादनार्थमनवद्यम् ।
त्रिविधग्रहणं तस्य विभागप्रतिपादकम् । भेदाः पूर्ववदित्यादिप्रन्थेन कथितास्त्रयः ।। तत्पूर्वकपदोद्गीतनिर्मलन्यायलक्षणाः । परिमानादरो ऽन्यत्र सूत्रकृद्वाक्यलाघवे॥ विभागवचनासिद्धं त्रैविध्यं स्वगिरा भवेत् । तथा च सिद्धशब्दान्तच्छलेष्वेवमदीदृशत् ।।
पूर्ववत्पदस्य अर्थःपूर्ववदिति यत्र कारणेन कार्यमनुमीयते यथा जलधरोन्नत्या भविष्यति वृष्टिरिति ।
अत्र चोदयन्ति, पूर्व हि कारणमुच्यते, पूर्वमस्यास्तीति पूर्ववत्कार्य वक्त तेन कार्यात्कारणानुमानमिहोदाहर्त्तव्यं न कारणात्कार्यानुमानम् , न च कारणेन कार्यमनुमातुमपि पार्यते कार्यस्य तावत्पक्षत्वमयुक्तम् , सिद्धय सिद्धिविकल्पानुवृत्तेः, सिद्धे हि काये किमन्यदनुमेयम् असिद्ध खपुष्पवन्न पक्षत्वम् , अपि चास्ति कार्य कारणस्यास्तित्वादिति व्यधिकरणो हेतुः अनित्यः शब्दः । काकस्य कार्यादितिवत, सत्तायां च साध्यायां भावधर्मस्य हेतोरसिद्धत्वम् अभावधर्मस्य विरुद्धत्वम् , उभयधर्मस्यानेकान्तिकत्वमिति कथं साधयितुं शक्यते तदुक्तम्,
नासिद्धे भावधर्मो ऽस्ति व्यभिचार्युभयाश्रयः ।
धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ॥ इति ।प्रमाणवाः न च कारणमात्रस्य हेतुत्वं युक्तं विनों च प्रतिबन्धादिना व्यभिचारसम्भेवात् , कारणविशेषश्च न कश्चिद्विपश्चिता ऽपि निश्चेतुं शक्यः चलदचलवि. पुलवपुषामुत्पलदलमलीमसत्विषामपि पयोमुचाममुक्तपयसामुपरमदर्शनात् ।
यदि त्वन्त्यदशावर्ति कारणं लिङ्गमिष्यते ।
व्याप्तिस्मरणवेलायां कार्यप्रत्यक्षता भवेत् ॥ ननु सौगतैरपि कारणात्कार्यानुमानमङ्गीकृतमेव
हेतुना यः समग्रेण कार्योत्पादो ऽनुमीयते ।
अर्थान्तरानपेक्षित्वात्स स्वभावो ऽनुवर्णितः ॥ प्रमाण वा० ३।६। इति, प्रन्थज्ञो देवानांप्रियः, उत्पाद्यते ऽस्मादित्युत्पादो योग्यता कथ्यते सा
नादा