SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् चात्रानुमेया, अत एव तस्य वस्तुनो ऽनन्यत्वात्स्वभावानुमानमिदमिष्यते स स्वभावो ऽनुवर्णित इति, __ अत्राहुः सर्वमिदमविदितानुमानप्रयोगक्रमस्य दुर्मतेश्चोद्यम् , न कार्यमत्र पक्षीक्रियते न सत्ता साध्यते न व्यधिकरण हेतुः प्रयुज्यते अपि तु पयोधरा एव धर्मिणः अदूरकालभाविन्या वृष्टया तद्वन्तः साध्यन्ते विशिष्टोन्नतिरूपधआदियोगेनेति न पूर्वकथितदोषावसरः, यथा अग्निमानयं धूमः बहुलपाण्डुता. दिधर्मयोगित्वान्महानसावधृतधूमवदिति, धूम एवग्निमत्तया ऽनुमीयते एवं समनन्तरोत्पादितवृष्टयो ऽमी जीमूताः सातिशयोन्नत्यादिधर्मयोगित्वात्पूर्वोपल. ब्धपर्जन्यवद् इति जलधरा एव भविष्यद्वष्टिमत्तया ऽनुमीयन्ते यथाह भट्टः तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात्प्रमेयता। सा देशस्याग्नियुक्तस्य धूमस्यान्यैश्च कल्पिता इति(१)॥ यत्त पूर्व कारणमुच्यते इति तत्सत्यम् , पूर्वमस्यास्तीति पूर्ववत्कारणगत. मुन्नतत्वादिधर्मजातमुच्यते तदेव लिङ्गमिति प्रन्थदोषो ऽपि न कश्चित् , न च कारणमात्रस्य हेतुत्वं ब्रमो येनास्य विधुरप्रत्ययोपनिपातादिकृतो व्यभिचारः स्यात् , अपि च विशिष्टमेव कारणं हेतुः न च कारणविशेषो दुरवगमः । गम्भीरगजितारम्भनिभिन्नगिरिगह्वराः । रोलम्बगवलव्यालतमालमलिनत्विषः ॥ स्वङ्गत्तटिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः । वृष्टिं व्यभिचरन्तीह नैव प्रायः पयोमुचः ।। अनभ्युपगमे चैवमनुमानस्य जीवितम् । न स्यामविशेषाणामपि बोधुमशक्तितः ॥ यदपि कार्यप्रत्यक्षत्वमाशङ्कितं तदप्ययुक्तम , न ह्यत्र वृष्टयनुमानसमये एव शिरसि सलिलकणाः पतन्तः पयोदमुक्ता दृश्यन्ते, परोक्षे लिङ्गिनि ज्ञानमनुमानमिति च विशेषणोपादानात् , यत्र तत्र न तदानीमेव वृष्टिः प्रत्यक्षीभवति तदुदाहरणं भविष्यति, अपि च अनुपजातावयवक्रियतया ऽनाशयमानविनाशेऽन्त्यतन्तौ जातया क्रियया पटनिष्पत्त्यनुमाने क्रियमाणे पटप्रत्यक्षताकाले व्यवधानसम्भवात, तथा हि, एकतस्तावत् अन्त्यतन्तो क्रियादर्शनम् अविनाभावस्मरणम् परामर्शज्ञानम् अनुमेयप्रतीतिरिति त्रिचतुराः क्षणाः अन्यतस्तु क्रिया क्रि. यातो विभागः विभागात्पूर्वसंयोगनिवृत्तिः ततः उत्तरसंयोगोत्पादः ततः पटनि (१) श्लोकवार्तिकेऽनुमानन्थे घलोकः ४७ ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy