________________
न्यायमञ्जर्याम्
पत्तिः निष्पन्ने पटे क्षणान्तरे रूपादिगुणारम्भः रूपादिजन्मनि पटस्य समवा. यिकारणत्वात् कारणस्य कार्यादवश्यं पूर्वकालभावित्वम्, अतो निष्पन्नो ऽपि नूनमेकस्मिन् क्षणे नीरूप: पटो भवतीति नतदैव प्रत्यक्षः, ततः क्षणान्तरे रूपोत्पादाद्रूपवद् द्रव्यमिन्द्रियसन्निकर्षात्प्रत्यक्षं भविष्यतीत्यतिबहव एते क्षणा अतो न कार्यप्रत्यक्षत्वम्, नापि विधुरप्रत्ययादिना कार्यानुत्पत्तिरनुत्पन्नावयवक्रियत्वविशेषणापादानेन तद्विनाशानाशङ्कनाक्रियातश्चोत्तरोत्तरकर्याणामवश्यम्भावित्वात् ।
यदपि हेतुना यः समग्रणेत्यादिना योग्यतानुमानं व्याख्यातं तदप्यसाधु खभावानुमानस्य निरस्तत्वात् , लोकश्च कारणादविकलात्कार्यमेव कल्पयति न योग्यतामित्यलं प्रसङ्गेन ।
शेषवत्पदस्या:-- शेषवदिति यत्र कार्येण कारणमनुमीयते यथा नदीपूरेणापरितने देशे वृष्टिरिति, अत्रापि वृष्टिमदुपरितनदेशसंसर्गलक्षणो नदीधमः तद्धर्मेणैव विशिष्टेन पूर्णतादिना ऽनुमीयते, वृष्टिमत्पृष्ठदेशसंसृष्टा इयं नदी फेनिलकलुषत्वादिविशिष्टपूरोपेतत्वात् पूर्वांपलब्धवंविधधुनीवत् , अयं देशो वा वृष्टिविशिष्टदेशान्तरसंसृष्टः विशिष्टनदीपूरवत्त्वेनानुमीयते इति प्राक्तनवैयधिकरण्यादिचोधचक्रस्येहापि नास्ति प्रसरः, फलतस्त्वियं वाचायुक्तिः कार्येण कारणमनुमीयते इति परमार्थतस्तु धर्मो धर्मवत्त्वेन धर्मवाननुमीयते इति स्थितिः, यदाह भट्टः
स एव चोभयात्मा ऽयं गम्यो गमक एव च ।
असिद्धेनैकदेशेन गम्यः सिद्धेन बोधक इति(१)॥ यत्त सेतुभमहिमविलयनादिनापि नदीपूरोपपत्तिदृष्टेति तत्राप्युच्यते ।
आवर्त्तवर्त्तनाशालिविशालकलुषोदकः । कल्लोलविकटास्फालस्फुरत्फेनच्छटाञ्चितः ।। वहदहलर्शवलवनशाद्वलसंकुलः। नदीपूरविशेषो ऽपि शक्यत न निवेदितुम् ।। प्रमातुरपराधो ऽयं विशेषं यो न पश्यति । नानुमानस्य दोषो ऽस्ति प्रमेयाव्यभिचारिणः ।। रोधोपघातसादृश्यव्यभिचारनिबन्धनम् ।
अनुमानाप्रमाणत्वमतो वक्तुमसांप्रतम् ।। (१) लाकवाति के अनुमानग्रन्थे कलेोकः २४ ।