________________
प्रमाणप्रकरणम्
११९ पारम्पर्येण वृष्टिश्च नदीपूरस्य कारणम् । पतद्घनपयोबिन्दुसंदोहस्पन्दनक्रमातू ।।
सामान्यतो दृष्टपदस्यार्थः। सामान्यतोदृष्टं तु यदकार्यकारणभूताल्लिङगात्तादृशस्यैव लिङ्गिनो ऽनुमानं यथा कपित्थादौ रूपेण रसानुमानम् , रूपरसयोः समवायिकारणमेकं कपि. स्थादि द्रव्यं न तु तयोरन्योन्य कार्यकारणभावः, शाक्यदृष्टया ऽपि वर्तमानयोः क्षणयोरितरेतरकार्यकारणता न सम्भवत्येव, धर्मिणश्च रूपवत्वेन रसवत्तानु मानाद् असिद्धादिचोद्यानां पूर्ववदनवकाशो वक्तव्यः, यत्पुनर्भाष्यकारेण भास्क. रस्य देशान्तरप्राप्या गत्यनमानमुदाहृतं तदयुक्तम् , देशान्तरप्राप्तेगतिकार्यत्वा. स्कार्येण कारणानुमानं शेषवदेवेदं स्यात् ।
अपि च देशान्तरप्राप्तिर्देशान्तरसंयोगः न च (१)दशशतांशार्देशान्तरेण शैलादिना संयोगः सम्भवति नभसा तु भवन्नपि दिशा वा दुर्लक्ष्यः प्रत्यक्षतर. वृत्तित्वात् पवनवनस्पतिसंयोगवत् मातृगर्भसंयोगवद्वा । ____ अथ देशान्तरे तरणिदर्शनं हेतुरुच्यते तस्यापि गतिकार्यता पारम्पर्येण वि. द्यते एव गत्या प्राप्तिः प्राप्त्या च तत्र दर्शनमिति, अथ देशान्तरे उपवने दर्शन पक्षीकृत्य दर्शनत्वेन च दर्शनशब्दवाच्यत्वेन च वा तस्य गतिपूर्वकत्वमनुमीयते देशान्तरे दिवाकरदर्शनं गतिपूर्वकं देशान्तरदर्शनत्वात्तच्छब्दवाच्यत्वाद्वा देव. दत्तदेशान्तरदर्शनवदिति तथा ऽपि पारम्पर्येण गतिकार्यता न निवर्तते एव, न हि दर्शनत्वं गोत्वादिवत्सामान्यमस्ति किं तु भावप्रत्ययेनात्र दर्शनोत्पादिकाशक्तिरुच्यते सा च नातीन्द्रिया नित्या का चिद् अपि तु स्वरूपसहकारिस्वभावै. वेति दृश्यमानं च देशान्तरप्राप्त्यात्मकमिति गतिकार्यम् , एवं दर्शनशब्दवा. च्यत्वे ऽपि हेतूकृते वक्तव्यम् , गत्या देशान्तप्राप्तिः जन्यते तया तत्र दर्शनं ते. न शब्दप्रयोगः स एव वाच्यत्वमिति भावप्रत्ययेनोक्तः तस्मात्सर्वथा गतिका. यत्वानपायाच्छेषवदेवेदमनुमानम् ।
तदेतद्भाष्यकारीयमुदाहरणमीदृशम् । रूपाद्रसानुमानं तु तस्माद्युक्तमुदाहृतम् ।। अकार्यकरणप्रायहेतूनां च प्रदर्शितः ।
भदन्तकलह (२) ऽस्माभिरुदाहरणविस्तरः ।। (१) दशशतांश:-सूर्यस्य । (२) भदन्तो बौद्धः।