SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जर्याम् अनुमान त्रैविध्यान्तरम् - एवं तावन्मतुव्याख्यया त्रैविध्यमनुमानस्य वर्णितम्, एतत्तु फल्गुप्रायमिव मन्यन्ते नियमात्मकसंबन्धबलादेव लिङ्गस्य गमकत्वमुक्तं न कार्यादिस्वरूपेण तत्किमत्रैविध्येन दर्शितेनेति वतिप्रत्ययमाश्रित्यान्यथा व्याचक्षते, पूर्ववदिति अत्र संबन्धग्रहणकाले लिङ्गलिङ्गिनेोः प्रत्यक्षतः स्वरूपमवधार्य पुनस्वादृशैव लिङ्गेन तादृगेव लिङ्गी गम्यते तत्पूर्वेण तुल्यं वर्त्तते इति पूर्ववदनुमानम्, यथा महानसे धूमाग्नी सहचरितौ दृष्ट्वा पुनः पर्वते धूमाग्न्यनुमानम्, ननु प्रत्यक्ष प्रतीत्या विषयगतसकल विशेष साक्षात्करणक्षमया तुल्या नानुमानिको मतिरिति कथं क्रियातुल्यत्वं तदभावात्कथं वतिः, सत्यमेवम्, तथापि बह्वेरेव तादृशस्य वैलक्षण्यापादकविशेषावच्छिन्नस्य लिङ्गेन ग्रहणाददूरविप्रकर्षेण क्रियातुल्यत्वमुपपत्स्यते, शेषवन्नाम परिशेषः स च प्रसक्तप्रतिषेधे ऽन्यत्राप्रसङ्गाच्छिष्यमाणसं प्रत्ययः, यथा क चित्प्रदेशे धूमेनाग्निमात्रे ऽनुमिते कि. मिन्धनेा ऽयमग्निरिति विमर्शे प्रसक्तानां तृणपर्णकाष्ठादीनां प्रतिषेधान्मृत्पापणादीनामप्रसङ्गाच्च गोमयेन्धनेा ऽग्निः परिकल्प्यते, यथा वा शब्दे द्रव्यकर्मत्वप्रतिषेधात्सामान्यादावप्रसङ्गाच्च गुणत्वानुमानं वक्ष्यते, सामान्यतोदृष्टं तु यत्र संबन्धकाले ऽपि लिङ्गस्वरूपमप्रत्यक्षं नित्यपरोक्षमेव सामान्यतोव्याप्तिप्रहरणादनुमीयते यथा शब्दाद्युपलब्ध्या श्रोत्रादिकरणम्, इन्द्रियाणामतीन्द्रियत्वान्न कदाचित्प्रत्यक्ष गम्यत्वम् अथ च च्छेदनादिक्रियाणां परश्वधादिकरणपूर्वकत्वेन व्याप्तिप्रहरणाच्छन्दाद्युपलब्धिक्रियाणां करणपूर्वकत्वमनुमीयते । अत्र वतिव्याख्याने चोदयन्ति, पूर्ववदेवमेकमनुमानमुक्तं स्यान्न त्रिविधम्, यतो न तावदनवगतव्याप्तिकं लिङ्गं गमकं भवति विशेषाणामनन्तत्वेन च तदन्वयव्यतिरेकयेोर्दुरवगमत्वात्सर्वत्र सामान्येनैव व्याप्तिग्रहणम्, यश्चेत्थं व्याप्तिज्ञानं तत्तुल्यं त्रितयेऽपि अतः सर्व पूर्ववदेव स्याद्वतेः सर्वत्र सम्भवात् । तदेतदयुक्तम्, अवान्तरविशेषस्य सुस्पष्टस्य भावात्, व्याप्तिपूर्वकमनुमा नमित्येतावता यद्येकविधमुच्यते तत्सत्यम्, एवं प्रकारमेवेदं तस्मिन्सत्यपि तु साम्ये भेदान्तरसम्भवात्त्रैविध्यमस्य प्रतिपाद्यते, तथा हि, धूमज्वलनया: पूर्व प्रत्यक्षेण प्रहरणादिदानीं तेनैव धूमेन स एवाभिरनुमीयते इति पूर्ववदिदमनुमा नमुच्यते यत्प्रत्यक्षपूर्वकमिति प्रसिद्धम् । १२० ननु धूमान्तरेणे वन्यन्तरानुमानं किं न प्रत्यक्षपूर्वकम्, क एवमाह न पूर्ववदिति, कथं तदमुच्यते तेनैव धूमेनेति, जात्यभिप्रायमेतदुच्यते न व्य. यभिप्रायम् । ननु सामान्यतस्तर्हि तत्परिच्छेदात्सामान्यतोदृष्टमेवेदं स्यात्, न सामा
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy