________________
प्रमाणपकरणम्
१२१
न्यतोदृष्टस्य नित्यपरोक्षानुमेयैकविषयत्वात् , प्रसक्तप्रतिषेधादिना च नियतसाध्यपरिच्छेदहेतु: परिशेषानमानमुच्यते, यथा गोमयेन्धनदहनान मानमुदाहृतं शब्दे वा गुणत्वकल्पनम , सामान्यतोदृष्टं तु नित्यपरोक्षविषयमुदाहृतमेव श्रोत्राद्यनुमानम , तदेवं भेदसम्भवात्त्रिविधमन मानमिति युक्तम् ।
आस्तां वोदाहरणभेदः एकत्राप्युदाहरणे त्रैविध्यमभिधातुं शक्यते, यथा इच्छादिकार्यमाश्रितं कार्यत्वाद् घटवद् इत्याश्रयमात्रे साध्ये पूर्ववदनुमानम् , प्रसक्तशरीरेन्द्रियाद्याश्रयप्रतिषेधेन विशिष्टाश्रयकल्पने तदेव परिशेषानमानम् , अनमेयस्य नित्यपरोक्षत्वात् तदेव सामान्यतोदृष्टं च ।
___सामान्यतोदृष्टशेषवदनुमानयोर्भेदः ननु परिशेषस्य सामान्यतोदृष्टस्य च को विशेषः, उच्यते-परिशेषानुमानप्रवृत्तावन्यः पन्थाः सामान्यतोदृष्टस्यान्यः, इच्छादिकार्य देहादिविलक्षणाश्रयं शरीरादिषु बाधकप्रमाणोपपत्तो सत्यां कार्यत्वादिति सामान्यतोदृष्टस्य क्रमः, परिशेषानुमानस्य तु इत्थं प्रवृत्तिः इच्छादेराश्रयत्वेन प्रसक्तानि शरीरेन्द्रियमनांसि निषिध्यन्ते दिकालादौ च तत्प्रसङ्गो नास्ति तत्पारिशेष्यादात्मैव तदाश्रय इति, परिशेषानुमाने च सर्वत्र नैष नियमः साध्यस्यातिपरोक्षत्वमिति गोमयानिकल्पनादिदर्शनात् , सामान्यतोदृष्टं तु नित्यपरोक्षविषयमेवेति सूक्तं त्रैविध्यम् । ___ अपरे पुन: अदृष्टस्वलक्षणविषयं शक्तिक्रियानुमानं सामान्यतोदृष्टमुदाहरन्ति देवदत्तादावपि क्रियायाः परोक्षत्वात् , चलतीति प्रत्यये हि न देवदत्तस्वरूपातिरिक्तक्रियातत्त्वप्रतिभासः ।।
य एव देवदत्तात्मा तिष्ठत्प्रत्ययगोचरः।
चलतीत्यपि संवित्तौ स एव प्रतिभासते ॥ अविरलसमुल्लसत्संयोगविभागप्रबन्धविषयत्वाञ्चलतीति प्रत्ययस्य न सर्वदा तदुत्पादः, कथं तर्हि नित्यपरोक्षे क्रियास्वलक्षणे ऽनुमानं क्रमते इति चेत् का. र्यस्य कादाचित्कत्वेन कारणपूर्वकत्वात् परिदृश्यमानस्य द्रव्यस्वरूपस्य कारणत्वे सर्वदा कार्योत्पादनप्रसङ्गात् सर्वदा तत्स्वरूपसद्भावाद्, न च सर्वदा का. यमुत्पद्यते इति तदतिरिक्तक्रियानमानम् , एवं शक्तावपि द्रष्टव्यम्, क्रियाश. क्तिस्वरूपस्य च नित्यपरोक्षत्वात्तददृष्टस्वलक्षणविषयमनमानमुच्यते न तु विशेषविषयं विशेषव्याप्तिग्रहणस्यासम्भवादिति ।।
तदिदमनपपन्नम् , परिस्पन्दरूपस्टोत्क्षेपणादिभेद्वतः कर्मणः चलत्यादिप्र. तीतो प्रकाशमानत्वेन प्रत्यक्षत्वाद् न तस्य नित्यानुमेयत्वम् , संयोगविभागाल. म्बनत्वे तु संयुज्यते विभज्यते इति प्रतीतिः स्याद् न चलतीति यथाविषयं प्रत्ययोपादात् , संवेदनानसारिणी च विषयव्यस्था अन्यथा घटप्रत्यये ऽपि परस्या