________________
१२२
न्यायमअर्याम्
लम्बनता स्यात् , संयोगविभागालम्बनते सति तिष्ठत्यपि चलत्प्रत्ययः प्राप्नोति तत्रापि संयोगविभागसम्भवात , स्थाणौ च श्येनसंयोगविभागवति चलतीति प्रतिभासो भवेत् , अविरलतदुपजनप्रबन्धे ऽपि भूतभाविनोः संयोगविभागयोः परोक्षत्वाद्वर्त्तमानयोग्रहणम् , तौ च चलित्वा ऽपि स्थिते देवदत्त स्त इति तत्रापि कथं न चलतीति प्रत्ययः ।।
निरन्तरं च संयोगविभागश्रेणिदर्शनात् ।
भूमावपि भवेद् बुद्धिश्चलतीति मनुष्यवत् ॥ __ अथ मनुषे यत्कियाजन्यत्वं संयोगविभागयोस्तत्रैव चलतीत्यादिबुद्धिः नान्यत्र देवदत्तक्रियया च तौ जन्येते न निष्क्रियया भूम्येति न तस्यां तथा प्रत्ययः, यद्येवं क्रियान्वयव्यतिरेकानुविधानास्क्रियालम्बन एवायं प्रत्ययो न संयोगविभागालम्बनः, तदालम्बनत्वे हि तयोर्द्वयवृत्तित्वाविशेषाद्विशेषे कारणं वाच्यं येन पुरुष एवायं प्रत्ययो न भूमामिति, देवदत्तक्रियाजन्यत्वेन तु न वि. शेषो यतः क्रियायाः परोक्षत्वे सति तदेव न विद्मः किमसौ देवदत्ताश्रया क्रिया किं वा भूम्याश्रितेति, संयोगविभागकार्यानुमानस्योभयत्रापि तुल्यत्वात् , न च देवदत्ते गच्छति भूमावनवरतवहद्वातसंयोगविभागवत्यपि वा तरङ्गिणीतीरपाषाणे चलतीति प्रत्ययो दृष्टः, तस्मास्कियाविषय एव चलतीति प्रत्ययो न संयोगविभागालम्बनः, संयोगविभागाग्रहणे ऽपि च निरालम्बे विहायसि विहरति विहंगमे चलतीति संवेदनं दृश्यते, न च गगनसंयोगः प्रत्यक्षः प्रत्यक्ष त्तरवृत्तित्वाद् गन्धवहमहीरुहसंयोगवद् , विततालोकावयव्याकशस्तत्संयोगश्च पत्रिणः प्रत्यक्ष इति चेन्नेतदेवम्
तमालनीलजोमृतसमूहपिहिताम्बरे ।
निशीथे सान्धकारे ऽपि चलत्खद्योतदर्शनात् ।। न तत्रालोकावयवी न च कश्चन तिमिरावयवी वा विद्यते इति केन संयोगो गृह्यते विभागो वा, भूकम्पोत्पाते च जाते चलति वसुमतीति मतिरस्ति न तत्र संयोगविभागो गृह्यते बहुलनिशीथे च नतराम , तस्मान्न संयोगाद्यालम्ब. ना चलतीति मतिरपि तु क्रियालम्बनैवेति, न च नित्यपरोक्षा क्रिया ऽनुमातुमपि शक्या कार्यस्य कारणपूर्वकत्वेन भवन्मते संबन्धग्रहणानुपपत्तेः, न हि ते द्रव्यस्वरूपं कारणमपि तु क्रियाऽऽविष्टम् , क्रियायाश्च परोक्षत्वान्न तदाविष्टद्रव्यग्रहणं सुघटमिति कारणत्वाग्रहणाद् घटादावपि दुर्घटा व्याप्तिप्रतीतिः, आ. स्मानुमाने तु नायं दोषः घटादेः कार्यस्याश्रितस्य प्रत्यक्षमुपलम्भात तस्मान्न का. र्यानुमेया किया न च संयोगानुमेया संयोगान्तं कर्मेति न्यायाद् वर्तमानायाः क्रियायास्तेनानुमातुमशक्यत्वात, कियानुमानवादश्च सामान्यलक्षणे विस्तरेण निरस्तः।