________________
प्रमाण प्रकरणम्
एतेन शक्तचनुमानमपि व्युदस्तं वेदितव्यम्, पुरा च सविस्तरमतीन्द्रियशक्तिनिराकरणं कृतमेव ।
१२३
तेनादृष्टक्रियाशक्तिस्वलक्षणमिति क्षमम् । नेदं सामान्यतोदृष्टमिति पूर्वोक्तमेव तत् ॥ इति मतुपि वतौ वा प्रत्यये वर्त्तमाने त्रिविधमिदमिहोक्तं युक्तमेवानुमानम् । परकविरचितानां लक्षणानां त्वमुष्मिन्सति न भवति शोभा भास्वतीवेन्दुभासाम् || बौद्धोक्तप्रतिबन्धदूषणदिशा तल्लक्षणं दूषितं भूयेोदृष्टमितान्वयैककरणं शेाच्यं पुनः शाबरम् । सांख्यानां तु कुतो ऽनुमानघटनोपादानरूपा यतस्तेषां जातिरसौ च तद्विकृतिवद्भिन्नेति दुःस्थो ऽन्वयः ॥
अनुमानस्य त्रिकाळविषयत्वम्
इदमिदानीं चिन्त्यते, यदेतदिन्द्रियादिसन्निकर्षजत्वादिना लक्षितमस्मदादिप्रत्यक्षं तत्किल प्रायशो वर्त्तमानकालविशिष्टवस्तुविषयम्, एवमिदमनुमानमपि किं गोचरमेव किंवा कालान्तरपरिच्छेदे ऽपि क्षममिति तदुच्यते, त्रिकालविषयमनुमानमिति, कस्मात् त्रैकाल्यग्रहात् त्रिकालयुक्ता अर्था अनुमानेन गृह्यन्ते, भूता नदीपूरेण वृष्टिरनुमीयते सैव भविष्यन्ती मेघोन्नत्या धूमेन वर्त्तमानोऽग्निरिति, अतश्च यन्मीमांसकैरुच्यते चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवं जातीयकमर्थं शक्नोत्यवगमयितुं नान्यदिति तदयुक्तम्, चोदनावत्प्रमाणान्तरस्याप्येवं जातीयकविषयत्वापपत्तेः, प्रत्यक्षमपि योगिनां त्रिकालविषयमुक्तमस्मदादीनामपि क चिदिति ।
काळाक्षेपः
अत्र चादयन्ति, काले सति त्रैकाल्यग्रहणं चिन्त्यं स एव तु दुरुपपादः तदावे कस्य वर्त्तमानादिविभागो निरूप्यते ।
न तावद् गृह्यते कालः प्रत्यक्षेण घटादिवत् । चिरक्षिप्रादिबोधोऽपि कार्यमात्रावलम्बनः ॥ न चामुनैव लिङ्गेन कालस्य परिकल्पना । प्रतिबन्धो हि दृष्टो ऽत्र न धूमज्वलनादिवत् ॥ प्रतिभासाऽतिरेकस्तु कथं चिदुपपत्स्यते । प्रचितां कां चिदाश्रित्य क्रियाक्षणपरम्पराम् ॥