________________
१२४
न्यायमञ्जर्याम्
न चैष ग्रहनक्षत्रपरिस्पन्दस्वभावकः । कालः कल्पयितुं युक्तः कियातो नापरो ह्यसौ ॥ मुहूर्गयामाहोरात्रमासत्वयनवत्सरैः। लोके काल्पनिकैरेव व्यवहारो भविष्यति ।। यदि त्वेको विभुनित्यः कालो द्रव्यात्मको मतः । अतीतवर्तमानादिभेदव्यवहृतिः कुतः ।।
केषां चिन्मतेन कालस्य प्रत्यक्षत्वम् -- + एवमाक्षिप्ते सति
प्रत्यक्षगम्यतामेव के चित्कालस्य मन्वते । विशेषणतया कार्यप्रत्यये प्रतिभासनात् ॥ कमण युगपत्क्षिप्रं चिरात्कृतमितीदृशः।
प्रत्यया नावकल्पन्ते कार्यमात्रावलम्बनाः ॥ म हि विषयातिशयमन्तरेण प्रतिभासातिशयो ऽवकल्पते ।
अरूपो नन्वयं कालः कथं गृह्येत चक्षुषा । रूपमेव तवारूपं कथं गृह्येत चक्षुषा । कथं वा रूपवन्तो ऽपि परोक्षाः परमाणवः ।
तस्मात्प्रतीतिरन्वेष्या किं निमित्तपरीक्षया । ननु द्रव्ये ऽयं नियमो न रूपादौ, द्रव्ये ऽपि नायं नियमः यद्रूपवत्तत्प्रत्यक्षमिति येन परमाणूनां तथाभावः स्यात् , किं तु यत्प्रत्यक्षं तद्रूपवदिदिति, तदु. क्तम् , त्रयाणां प्रत्यक्षत्वरूपवत्त्वद्रवत्वादीनीति (१)नेदं दैविकं वचनं यदन. तिकमणीयम्, न च वचनेन प्रत्यक्षत्वमप्रत्यक्षत्वं वा व्यवस्थाप्यते प्रत्यक्षत्वं बैन्द्रियकप्रतीतिविषयत्वमुच्यते तच्चेदस्ति कालस्य नीरूपस्यापि प्रत्यक्षता केन वार्यते, रूपित्वं तद् द्रव्याणामस्तु तथा दर्शनात्,
न चानुद्घाटिताक्षस्य क्षिप्रादिप्रत्ययोदयः ।
तद्भावानुविधानेन तस्मात्कालस्तु चाक्षुषः ॥ स्वतन्त्र एव तहि घटादिवत्कस्मान्न गृह्यते काल इति चेद्वस्तुस्वभाव एष न पर्यनुयोगार्हः, रूपिद्रव्यविशेषणतां गतस्य तस्य ग्रहणं न दण्डादिवत्स्वतन्त्र. स्यापीति गगनादेस्स्वन्यविशेषणतया ऽपि न ग्रहणमस्तीति तस्याप्रत्यक्षत्वं न स्वरूपत्वात् ।
अथ वदेद् विशेषणस्यापि रूपवत एव दण्डादेः चक्षुषा ग्रहणं न कालादेरिति तयुक्तम् , अरूपस्यापि सामान्यादेविशेषणस्य चक्षुषा ग्रहणात् , द्रव्ये नि
(१) वैशेषिकदर्शने प्रशस्तपादभाष्ये प्रथमालिके।