________________
प्रमाण प्रकरणम्
१.२५
यम इति चेद् उक्तमत्र यदेव नयनकरणकावगमगोचरे संचरति तदेव चाक्षुषं रूपवदरूपं वा द्रव्यमद्रव्यं वेति, एवं गुरु द्रव्यमिति कार्तस्वरादौ प्रतिभासाद् गुरुत्वमपि प्रत्यक्षं न पतनानुमेयमेव ।
तस्मात्स्वतन्त्रभावेन विशेषणतया ऽपि वा । चाक्षुषज्ञानगम्यं यत्तत्प्रत्यक्षमुपेयताम् ॥
अत एव प्रत्यक्षः कालः, एवं समानन्यायत्वात्पूर्वापरादिप्रत्ययगम्या दिगपि प्रत्यक्षा वेदितव्येति ।
कालस्यानुमेयत्वम्
अन्ये मन्यन्ते, दण्डी देवदत्तो नीलमुत्पलमितिवद्विषयातिरेकस्याग्रहणात्प्रत्ययातिशयस्य च परोक्षकालपक्षे ऽपि तत्कारणकस्योपपत्तेरनुमेय एव कालः । अप्रत्यक्षत्वमात्रेण न च कालस्य नास्तिता ।
-
युक्ता पृथिव्यधोभागचन्द्रमः परभागवत् ॥
प्रतिभासमानो ऽपि कालः संस्कार इवेन्द्रियसहचरितः प्रत्यभिज्ञां क्षिप्रादिप्रतीतिं जनयिष्यति कृतश्च प्रत्यक्षलक्षणे महान्कलिः किं विषयभेदादेव प्रतिभासभेदः उत पायभेदादपीति तदलं पुनस्तद्विमर्देन ।
प्रमाणमिति निर्णीतं प्रत्यक्षं सविकल्पकम् ।
तस्मान्न कल्पनामात्रं चिरक्षिप्रादिसंविदः ||
न च संपरिदृश्यमानकारणविनिर्मितत्वमुपपद्यते क्रियमाणस्य पटादेः कार्यस्य तदुत्पादस्य च तन्तुतुरीवेमशलाका कुविन्दादिकारणवृन्दस्य साम्ये ऽपि क चित्तूर्ण कृतं क चिञ्चिरेण कृतमिति प्रतिभासभेददर्शनान्निमित्तान्तरं चिन्तनीयम्,
ननु परिस्पन्दादिक्रियाभेद एवात्र निमित्तं कश्चित्परिस्पन्दश्चतुरः कश्चिन्मन्थर इति क्व चित्क्षिप्रबुद्धिः क चिच्चिरबुद्धिरिति, नैतच्चारु, परिस्पन्दगतयोरपि चातुर्य मान्थर्ययोर्निमित्तान्तरकार्यत्वात्, परिस्पन्दे ऽपि चिरेण गच्छति शीघ्रं धावतीति चिरक्षिप्रादिप्रतीतिर्दृश्यते, आह-न देवदत्तादिपरिस्पन्दनिबन्धनाः क्रमाकुमादिप्रत्ययाः किं तु प्रहनक्षत्रादिपरिस्पन्दनिबन्धनाः, स एव च ग्रहतारादिपरिस्पन्दः काल इत्युच्यते, तत्कृत एवायं यामाहोरात्रमासादिव्यवहारः, तस्य स्वत एव भेदादौपाधिकभेदकल्पनाक्लेशो न भविष्यति, भेदपरिच्छेदे नालिका प्रहरा दिरुपायः इयती नालिका इयन्मुहूर्तम् इयान्प्रहरः इति, तत्रैकस्मिन्मुहूर्ते प्रहरे वा निर्वर्त्यमानेषु बहुषु कार्येषु युगपदिति भवति मतिः, मुहूर्तान्तरापेक्षेषु क्रमेणेति, तस्माद् ग्रहादिपरिस्पन्द एव तैम्वैर्निमित्तैरुपलक्ष्यमाणप्रमाणः काल इति, कालविदश्च ज्योतिर्गणकास्त एवैनं बुध्यन्ते, तदसांप्रतम्, चन्द्रादिग्रहपरिच्छेदे sपि क्रियादिप्रतीतिदर्शनात् ।
.