________________
न्यायमञ्जयाम्
चिरेणास्तं गतो भानुः शीतांशुः शीघ्रमुद्गतः ।
उदिताविव दृश्येते युगपद्भोमभागवो ॥ इति दृश्यते प्रतिभासः, न च ग्रहान्तरपरिस्पन्दकारणक एष शक्यते वक्तमनवस्थाप्रसङ्गात् , तस्मान ग्रहादिपरिस्पन्दः कालः किं तु वस्त्वन्तरं यत्कृता ऽयं कमादिव्यवहारः।
ननु भवत्कल्पितो ऽपि कालः किं स्वत एव कमस्वभावः हेत्वन्तराद्वा, स्व. तस्तस्य तत्स्वभावत्वे कार्यस्यैव पटादेः परिदृश्यमानस्य तत्स्वाभाव्यं भवतु किं कालेन, हेत्वन्तरपक्षे त्वनवस्था तस्यापि हेत्वन्तरापेक्षत्वादिति ।
तदेतद्वालिशचाद्यम् , शुक्लगुणादावप्येवं वक्तुं शक्यत्वात् , गुणस्य स्वत: शुक्लस्वभावत्वे द्रव्यस्यैव तद्भक्तु किं गुणेन गुणान्तरकल्पने त्वनवस्थेति, अथ तत्र तथा दर्शनान्नदं चायं तदिहापि समानम् , कार्येषु पटादिषु निमित्तान्तरकृतः कमादिव्यवहारो निमित्तान्तरे निमित्तान्तरं न मृग्यमिति, तस्मादस्ति युगपदादिव्यवहारहेतुः कालः, अतश्चैवम्
दृष्टः परापरत्वस्य दिक्कृतस्य विपर्ययः।
युवस्थविरयोः सो ऽपि विना कालं न सिध्यति । दूरतरदिगवच्छिन्नो देवदत्तादिः पर इति प्रतिभासते निकटदिगवच्छिन्नस्तु अपर इति, तदत्र न कालव्यतिरिक्तं कारणमुपपद्यते इत्यतो ऽनुमीयते कालः, सचायमाकाशवत्सर्वत्रैकः कालः यथा ऽऽकाशलिङ्गस्य शब्दस्य सर्वत्राविशेषा. द्विशेषलिङ्गाभावाच्चैकः आकाशः, सर्वत्र तयवहाराद्विभुः, अवयवाश्रयानुप. लम्भाद् निरवयवः, अनाश्रितश्चानाश्रितत्वादेव द्रव्यम् , अत एवावयवविभा. गादिनाशकारणानुपपत्तेनित्य इति ।
काळवैविध्यम् नन्वेवं चैकत्वात्कालस्य कुतो वर्तमानादिविभागः तदभावात्कथं त्रिकाल. विषयमनुमानमुच्यते, उच्यते न तात्त्विकः कालस्य भेदो वर्तमानादिः, कि त्व. सन्नप्यसो व्यवहारसिद्धये केन चिटुपाधिना कल्प्यते, कः पुनरसावुपाधिः कियेति बमः।
ननु तस्या अपि न स्वतो वर्तमानादिभेदः तद्भावे वा सैव तथा भवतु किं कालेन, मैवम्, उत्पत्तिस्थितिनिरोधयोगिफलावच्छेदेन नानाक्षणपरम्परात्मिकापि कियेत्युच्यते सा वत्तेमानादिभेदवती च, तथा हि, स्थाल्यधिश्रयणात्प्रभृति
आ तवतरणादुत्पद्यमानौदनाख्यफलावच्छेदाकिया वर्तमानाच्यते पचतीति तदवच्छेदाद् घटाकाशवकालो ऽपि तावान् वर्तमान इत्युच्यते, अभिनिवृत्तफलावच्छेदात्मा परिस्पन्दसन्ततिरतीताभवति अपाक्षीदिति तदवच्छेदात्का