________________
प्रमाणप्रकरणम्
लो ऽप्यतीत उच्यते, अनारब्धफलावच्छेदाद्भविष्यन्ती कियोच्यते पक्ष्यतीति तथा कालो ऽपीत्येवं सोपाधिक: काले एव वर्तमानादित्रयव्यवहारः, अतश्च यदुच्यते वृक्षात्पततः पर्णस्य भूतभविष्यन्तावध्वानौ दृश्यते न वर्तमान: तस्माद्वर्त्तमानः कालो नास्तीति तदसंबद्धम् , अध्वव्यङ्गयत्वाभावात्कालस्य, न ह्यध्वव्यङ्गयः कालभेदः किं तु यथोक्तक्रमेण कियाव्यङ्गय एवेति, कियापरिकल्पित. भेदनिबन्धनश्चायं क्षणलवकाष्ठाकलानालिकामुहूर्त्तयामाहोरात्रमासत्वयनसंवत्सरयुगमन्वन्तरकल्पव्यवहार इत्यलं प्रसङ्गेन ।
तिथ्यादिभेदावधारणं च वैदिककर्मप्रयोगाङ्गम, पौर्णमास्यां पौर्णमास्यया यजेत अमावस्यायाममावस्यया यजेतेति, एवं वसन्ताधतुभेदो ऽपि तदङ्ग वसन्ते ब्राह्मणो ऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यः वर्षासु रथकार इति, स चायमृतुतिथ्यादिविभागः किययैव ज्योतिःशास्त्रोपदिष्टविशिष्टराशिसंसृष्टच. न्द्रादिग्रहगतया लक्ष्यते लौकिकेन च लक्ष्मणा तेन तेनेति, तद्यथा
चब्च्वग्रचुम्बिताताम्रचूताङ्करकदम्बकैः । कथ्यते कोकिलैरेव मधुर्मधुरकूजितैः ।। दिवाकरकरालातपातनिदग्धवीरुधः । मार्गाः समल्लिकामोदा भवन्ति ग्रीष्मशंसिनः ।। शिखण्डमण्डनारब्धोद्दण्डताण्डवडम्बरैः । प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः ।। मौक्तिकाकारविस्तारितारानिकरचित्रितम् । शरत्पिशनतां याति यमुनाम्भोनिभं नमः॥ आयामियामिनीभोगसफलाभोगविभ्रमाः । हेमन्तमभिनन्दन्ति सोष्माणस्तरुणीस्तनाः ।। आस्कन्दनदलत्कुन्दकलिकोत्करदन्तुराः। वदन्ति शिशिरं वातास्तुषारकणकर्कशाः ॥ तस्मादेको ऽप्ययं कालः कियाभेदाद्विभिद्यते ।
दिनिरूपणम्एतेन सदृशन्यायान् मन्तव्या दिक्समर्थिता ॥ पूर्वपश्चिमादिप्रत्ययानां केवलवृक्षादिप्रत्ययवैलक्षण्येन कारणान्तरानुमाना.. त्, दिग्लिङ्गाविशेषादेकत्वे ऽपि दिशो दशविधाः, प्रदक्षिणावर्तपरिवर्तमानमा- तण्डमण्डलमरीचिनिचयचुम्ब्यमानकाञ्चनाचलकटकसंयोगोपाधिकृतः पूर्वप' श्चिमादिभेदः कल्प्यते, पूर्वा पूर्वदक्षिणा दक्षिणा दक्षिणपश्चिमा पश्चिमा पश्चिमोत्तरा उत्तरा उत्तरपूर्वा अधस्तनी ऊों चेति, देवतापरिग्रहवशाच पुनरेषेव