________________
१२८
न्यायमअर्याम् दिग्दशधोच्यते, ऐन्द्री आग्नेयी याम्या नैऋती वारुणी वायव्या कौबेरी ऐशानी नागीया ब्राह्मी चेति । ___ ननु च येनैव प्रत्ययेन प्रत्यक्षेण लिङ्गेन वा सता दिक्कालाववगम्येते तेनैव तयोर्मेंदग्रहणात्कथमेकत्वं तदवगमसमय एव तथा भेदप्रतिभासात् , उक्तमत्र स. र्वत्र तत्प्रत्ययाविशेषादिति, व्यत्ययदर्शनाच यैवैकत्र पूर्वा दिक्सैवान्यत्र दक्षिणेति गृह्यते 'प्राग्भागो यः सुराष्ट्राणां मालवानां स दक्षिण' इति, कालेऽपि चि. रक्षिप्रादिविभागश्चाव्यवस्थित एव दृश्यते यो हि अनागत इति परिस्फुरति कालः स एव वर्तमानो भवति भूतो भवति च, तथा च चिरमपि शीघ्रीभवति शीघ्रमपि चिरीभवति, तस्मात्तद्भेदो ऽप्योपाधिक इति सिद्धम् ।
समानतन्त्र दिक्कालौ वैतत्येन विचिन्तितौ । तन्नेह लिख्यते लोके द्वेष्या हि बहुभाषिणः ॥ सिद्धः कालश्चाक्षुषो लैङ्गिको वा तन्नानात्वं सिद्धमौपाधिकं च । तस्माद्युक्तं निश्चिकाय त्रिकालग्राहीत्येवं सूत्रकारो ऽनुमानम् ।।
इत्यनुमाननिरूपणम्
अथोपमानलक्षणम्अनुमानानन्तरमुपमानं विभागसूत्रे पठितमिति तत्क्रमेण तस्य लक्षणमुच्यते।
प्रसिद्धसाधासाध्यसाधनमुपमानम् ॥ ६ ॥ अत्र वृद्धनैयायिकास्तावदेवमुपमानस्वरूपमाचक्षते, संज्ञासंज्ञिसम्बन्धप्र. तीतिफलं प्रसिद्धतरयोः सारूप्यप्रतिपादकमतिदेशवाक्यमेवोपमानम् , गवयार्थी हि नागरको ऽनवगतगवयस्वरूपस्तदभिज्ञमारण्यकं पृच्छति कीदृग्गवय इति स तमाह यादृशो गौस्तादृशो गवय इति, तदेतद् वाक्यमप्रसिद्धस्य प्रसिद्धन गवा सादृश्यममित्तिद्वारकमप्रसिद्धस्य गवयसंज्ञाभिधेयत्वं ज्ञापयती. त्युपमानमुच्यते।
ननु शब्दस्वभावत्वादस्याप्तोपदेशः शब्द इत्यनेन गतार्थत्वान्नेदं प्रमाणान्त. रं भवेत् , न च संज्ञासंज्ञिसंबन्धपरिच्छेदफलत्वेन प्रमाणान्तरता वक्तव्या फ लवैचित्र्येण प्रमाणानन्त्यप्रसङ्गात् , लौकिकानि हि वचनानि वैदिकानि च विधिनिषेधबोधकानि नानाफलान्यपि भवन्ति न शब्दतामतिकामन्ति ।
उच्यते-यत्र शब्दप्रत्ययादेव तत्प्रणेतृपुरुषप्रत्ययादेव वा अर्थतथात्वमुपा. यान्तरानपेक्षमवगम्यते स आगम एव ततस्तदर्थप्रतीतेः, यत्र तु पुरुषः प्रती. त्युपायमपरमुपदिशति तत्र तत एवोपायात्तदथोवधारणम् , उपायमात्रावगमे तु