________________
प्रमाणप्रकरणम्
.
१२९
शब्दव्यापारो यथा परार्थानुमाने, अग्निमानयं पर्वतो धमवत्त्वान्महानसवदि. ति, अत्र हि न पुरुषोपदेशविश्वासादेव शैलस्य कृशानुमत्तां प्रतिपत्ता निमित्तान्तरनिरपेक्षः प्रतिपद्यते अपि तु तदवबोधकधूमाख्यलिङ्गसामर्थ्यादेव, तदिह यद्याटविको नागरकाय गवयार्थिने तदवगमोपायं प्रसिद्धसाधय नाभ्यधास्यत्त. हि तदुपदेश आगमे एव अन्तरभविष्यत् , तदुपदेशात्त तत एव तदर्थावगम इति सत्यपि शब्दस्वभावत्वे प्रमाणान्तरमेवेदम् , प्रतिपत्ता ऽपि नागरको नारण्यकवाक्यादेव तं प्राणिनं गवयशब्दवाच्यतया बुध्यते किं तु सारूप्यं प्रसिद्धेन गवा तस्य पश्यति, किमारण्यकवाक्येन न संप्रत्ययो नागरकस्य, न ब्रमो न संप्रत्यय इति किं तु सारूप्यमुपायान्तरं तदवगतावसावुपदिष्टवानिति ततो ऽवगतिर्भवन्ती न निह्नोतुं शक्यते इति न शाब्दी सा प्रतीतिरपि त्वोपमानिकीति वचनमपि भवदिदमुपमानं प्रमाणान्तरमिति युक्तम् , भाज्याक्षराण्यपि चैतत्पक्षसाक्ष्यच्छायामिव वदन्ति लक्ष्यन्ते, तानि तु ग्रन्थगौरवभयान योज्यन्ते इत्यलं प्रसङ्गेन । __ अद्यतनास्तु व्याचक्षते श्रुतातिदेशवाक्यस्य प्रमातुरप्रसिद्ध पिण्डे प्रसिद्धपि. एडसारूप्यज्ञानमिन्द्रिय संज्ञासंज्ञिसंबन्धप्रतिपत्तिफलमुपमानम् , तद्धीन्द्रियजनितमपि धूमज्ञानमिव तदगोचरप्रमेयप्रमितिसाधनात्प्रमाणान्तरम् , श्रुतातिदेशवाक्गे हि नागरकः कानने परिभ्रमन गोसदृशं प्राणिनमवगच्छति ततो वनेचरपुरुषकथितं यथा गौस्तथा गवय इति वचनमनुस्मरति स्मृत्वा च प्रति. पद्यते अयं गवयशब्दवाच्य इति, तदेतत्संज्ञासंज्ञिसंबन्धज्ञानं तज्जन्यमित्युप. मानफलमित्युच्यते।
प्रत्यक्षं तावदेवैतद्विषये न कृतश्रमम् । वनस्थगवयाकारपरिच्छेद फलं हि तत् ।। अनुमानं पुननोत्र शङ्कामप्यधिरोहति ।। क लिङ्गलिङ्गिसंबन्धः क संज्ञासंज्ञितामतिः ॥ आगमादपि तत्सिद्धिर्न वनेचरभाषितात् ।
तत्कालं संज्ञिनो नास्ति गवयस्य हि दर्शनम् ।। संज्ञासंज्ञिनोश्च परिच्छेदे सति तत्संबन्धः सुशको भवति नान्यथा, अत एव प्रत्यक्षपूर्वक संज्ञाकर्मेत्याचक्षते, एतदाक्षिपति
उपमानस्य प्रमाणान्तरत्वे आक्षेपःननु नागरकप्रश्नमनुरुध्य वनेचरः।
ब्रूते ऽतिदेशकं वाक्यं यथा गोर्गवयस्तथा ॥ १७ न्या०