________________
१३०
न्यायमअर्याम् अस्यायमथो यस्य त्वं गोसादृश्यं निरीक्षसे । तमेव गवयं विद्याः स चायं संझिनो ग्रहः ।। संबन्धकारणं चेह विशेषेषु न युज्यते । आनन्त्यात्किं तु सामान्ये तच्चेत्थमवधारितम् ।। प्रत्यक्षपूर्वकं संज्ञाकमेति न हि वैदिकी। चोदना किं त्ववच्छेदः संज्ञिनो ऽत्र विवक्षितः॥ स तु प्रत्यक्षतो वा ऽस्तु प्रमाणान्तरतोऽपि वा। स्मयमाणो ऽपि चार्थोस्ति संकेते कारणं क चित् ॥ यो ऽसौ तत्र त्वया दृष्टः प्राणी स रुरुरुच्यते । क चित्त कैश्चिन्निर्दिश्य परीक्षमुपलक्षणैः ॥ संज्ञिनं व्यवहारस्तत्र संज्ञां नियुब्जते । दन्तुरो रोमशः श्यामो वामन: पृथुलोचनः । यस्तत्र चिपिटग्रीवस्तं चैत्रमवधारयेः । एवमत्र पि गोपिण्डसारूप्येणोपलक्षिते ।। वाच्ये वाचकसंबन्धबोधनं नैव दुर्घटम् । अथ सोपप्लवा वाक्याद् बुद्धिरित्यभिधीयते ।। उपप्लवो ऽपि संबन्धे न कश्चिदनुभूयते । यस्त्वस्ति गवयाकारं प्रति कीहगसाविति ॥ सोऽपि प्रत्यक्षतो दृष्टे गवये विनिवर्तते । प्रत्यक्षागमसिद्धे ऽर्थे तस्मान्मानान्तरेण किम् ॥
उपमानस्य प्रमाणान्तरत्वसमर्थनम्अत्राहुः, नाटविकरटितवाक्याद्विस्पष्टः संज्ञासंशिसंबन्धप्रत्ययो भवितु. मर्हति संज्ञिनस्तदानीमप्रत्यक्षत्वात् , यद्यपि गोसारूप्यविशिष्टतया तदवगम उप. पादितः तथा ऽपि सोपप्लवेव भवति तदानीं बुद्धिः ।
न निराकाङ्क्षताबुद्धिस्तदानीमुपजायते । तदुत्पादनपर्यन्तः शब्दव्यापार इष्यते ।। न चासो निर्वहत्यत्रवाच्यसंवित्त्यपेक्षणात् । शब्देन तदनिर्वाहान स्वकार्य कृतं भवेत् ।। संबन्धप्रतिपत्तिश्च सामान्ये यदि येष्यते । तदप्यविदितव्यक्ति न सम्यगवधारितम् ।। गवयाकारवृत्तिश्च तदानीं बुद्ध्युपप्लवः । संबन्धे ऽपि द्वयधिष्ठाने दधाति श्यामलां धियम् ।