________________
प्रमाणभकरणम्
१३१
प्रत्यक्षपूर्वकं तस्मात्संज्ञाकर्मेति गीयते । क चित्तदेव प्रत्यक्षं स्मृतिद्वारेण कारणम् ॥ पूर्वदृष्टे कुरङ्गादौ संबन्धो दर्शितो यथा।
चैत्रे प्रत्यक्षवसिद्धिदन्तुरादिविशेषणः ।। इह पुनरतिदेशवचनसमये गासादृश्यमात्रोपदेशे सत्यपि संज्ञिनि न निवतते एवोपप्लवः प्रमाणान्तरपरिच्छेदसापेक्षकसंज्ञिरूपोपदेशात् , यत्र गोसादृश्यं पश्यसीति प्रत्यक्षादेव तर्हि उपप्लवो विरंस्यतीति चेद् न, प्रत्यक्षस्येन्द्रियसन्निकर्षादिस्वभावस्य संज्ञासंज्ञिसंबन्धबोधकरणासमर्थत्वात् ।
प्रत्यक्षफलमेतत्त समर्थ सत्यमिष्यते ।
तस्यैव च वयं ब्रूम उपमानप्रमाणताम् । यथा प्रत्यक्षफलमपि धरणिधरकुहरभुवि धूमदर्शनमनिन्द्रियविभावसुबोधसाधनत्वादनुमानम् एवं गोसारूप्यविशेषितविपिनगतगवयपिण्डदर्शनमध्यक्षफलमपि तदनवगतसंज्ञासंज्ञिसंबन्धबोधविधानादुपमानमुच्यते, यथा च तत्र पूर्वावगतधूमाग्निप्रतिबन्धस्मरणं सहकारितामुपैति तथा इहापि पूर्वश्रुतारण्यक वाक्यार्थस्मरणम , यथा तत्र व्याप्तिवेलायामनालीढविशेषा बुद्धिरधुना पक्षधर्मताबलाद्विशेषे व्यवतिष्ठते अत्राग्निरिति तथा ऽत्राप्यनवगतवाच्यविशेषाद्वाक्याद् बुद्धिरिदानी वाच्यविशेष दृष्टे निरुपप्लवा जायते अयं स गवयशब्दाभिधेय इति, नैतावता ऽनुमानमेवेदमित्याशङ्कनीयम् अनपेक्षितधर्मान्वयव्यतिरेकादि. सामग्रीकस्य तत्प्रत्ययोत्पादात।
तस्मादयं स गवयो नामेत्येवंविधा मतिः ।
उपमानकजन्यैव न प्रमाणान्तरोद्भवा ॥ न चैषा नास्ति सन्दिग्धा बाध्यते कल्पनामानं वेति सर्वथैतस्याः प्रमितेः साधनमुपमानं प्रमाणमिति सिद्धम् , तदिदमाह प्रसिद्धसाधात्साध्यसाधन. मुपमानम् , प्रसिद्धसाधादिति कर्मधारयः तृतीयासमासो बहुव्रीहिर्वा, प्रसिद्ध च तत्साधम्ये प्रसिद्धन गवा वा साधम्य गवयस्य प्रसिद्ध वा साधम्य यस्य स प्रसिद्धसाधयों गवयः तस्मात्प्रसिद्धसाधम्योत्साध्यसाधनमुपमानम् , साध्यः संज्ञिसंबन्धः तस्य साधनं बोधनं संज्ञासंज्ञिसम्बन्धज्ञानं वा साध्यं तस्य साधनं जननमित्यर्थः, एवं प्रसिद्धसाधर्म्यज्ञानमुपमानं फलं संज्ञासंशिसंबन्धज्ञानमित्युक्तं भवति ।
साध्यसाधनशब्देन करणस्य प्रमाणताम् ।
ब्रवीत्येतच्च मन्तव्यं सर्वत्र परिभाषितम् ।। अत एव मध्ये लिखितमिदं यदुभयतः प्रमाणलक्षणानि व्याप्स्यतीति ।