________________
न्यायमक्षयम्
अत्यन्तप्रायसाधर्म्यविकल्पादिनिबन्धनः । क्षिप्तः सूत्रकृतः साचादुपमानस्य विप्लवः ।। येन सदृशप्रतीतिर्जन्यते तत्सदृशमिति किमत्यन्तसादृश्यादिविकल्पैः । अभिन्नप्रत्यये हेतुर्यथा सामान्यमुच्यते । सदृशप्रत्यये हेतुस्तथा सादृश्यमुच्यते ।।
१३२
उपमान
ननूप मानलक्षणमस्मिन् मोक्षशास्त्रे कोपयुज्यते, आगमात्तावदात्मज्ञानं मोक्षसाधनं सेतिकर्त्तव्यता कमवगम्यते, अनुमानादागमप्रामाण्यनिश्चयः, प्रत्यक्षादनुमानस्य व्याप्तिपरिच्छेद इति त्रयमेवोपदेष्टव्यम्, सत्यमेवम्, मपि क चिद्रवयालम्भादिचोदनार्थानुष्ठाने सोपयोगम्, अवगत गवयस्वरूपे तदालम्भाभावात्, यथा मुद्गस्तम्भस्तथा मुद्गपर्णीति मुद्गपर्ण्याद्यौषधिपरिज्ञानेऽपि तदुपयोगि भवति ।
सर्वानुग्रहबुद्ध्या च करुणार्द्रमतिर्मुनिः । मोक्षोपयोगाभावे ऽपि तस्य लक्षणमुक्तवान् ॥
नन्वेवं सति यागौषधाद्युपयोग्यन्यदपि बह्वपदेष्टव्यं स्यात्, न प्रमाणशास्त्रत्वादस्य प्रमाणमेवार्थपरिच्छित्तिसाधनमिहोपदिश्यते तच्चतुर्विधमेव न न्यूमधिकं वेति निर्णीतम्, प्रमेयं तु मोक्षाङ्गमेवे | पदिश्यते इत्यलं प्रसङ्गेन ।
मीमांसकाभिमतोपमानस्वरूपनिरूपणम्
जैमिनीयास्तु अन्यथोपमानस्वरूपं वर्णयन्ति, यदा श्रुतातिदेशवाक्यस्य बने गवयपिण्डदर्शनानन्तरं नगरं गतं गोपिण्डमनुस्मरत एतेन सदृशो गौरिति ज्ञानं तदुपमानम्, तस्य विषयः सम्प्रत्यवगम्यमानगवयसादृश्यविशिष्टः परोक्षो गौः तद्वृत्ति वा गवयसादृश्यम्, अत एव तज्ञानं प्रत्यक्षजन्यं परोक्षगोपिण्डवि षयत्वात्, अश्रुतातिदेशवाक्यस्याभावान्न शाब्दम् ।
न च स्मरणमेवेदं प्रमेयाधिक्यसम्भवात् । गवयेन हि सादृश्यं न पूर्वमवधारितम् ॥ भूयोऽवयव सामान्ययोगो यद्यपि मन्मते । सादृश्यं तस्य तु ज्ञप्तिर्गृहीते प्रतियोगिनि ॥
न चानुमानिकमिदं ज्ञानमनपेक्षितपक्षादिधर्मादिकस्य भावात्, न च गवयगतं सारूप्यं तत्र लिङ्गमपक्षधर्मत्वात् नापि गोगतमप्रसिद्धत्वात् प्रतिज्ञार्थे - कदेशत्वाच्च, विषारणाद्यवयवजातमपि न गोगतं लिङ्गमिदानीं वनस्थस्य तद्द्महणाभावातू, अगृहीतस्य च लिङ्गत्वानुपपत्तेः, गवयगतमपि तदलिङ्गमेव पूर्ववदपक्षधर्मत्वात् तस्माद् गवयसादृश्यविशेषितनगरगतपरोक्षगोपिण्डज्ञानं काननवर्त्तिनः प्रमातुः प्रमाणान्तरं भवतीत्यभ्युपगन्तव्यम् ।
"