________________
प्रमाणप्रकरणम्
मीमांसकाभिमतोपमानस्वरूपनिराकरणम् ---- तदिदमनुपपन्नम् , एवंविधप्रतीत्यभावात् ।
प्रसिद्धेन हि सादृश्यमप्रसिद्धस्य गम्यते ।
गवा गवयपिण्डस्य न तु युक्तो विपर्ययः॥ तथा हि, अश्रुतातिदेशको नागरकः कानने परिभ्रमन्नहष्टपूर्व गोसदृशं प्रा. णिनमुपलभमान एवं बुद्धयते ब्रवीति च अहो नु गवा सदृश एष कश्चन प्राणीति, न त्वनेन सदृशो गौरिति ज्ञानमभिधानं वा तदानीं कस्य चिदस्तीति अतः प्रमितेरेवाभावात्किं प्रमाणचिन्तया, भवतु वैषा बुद्धिरनेन सदृशो गौरिति तथा ऽपि स्मृतित्वान्न प्रमाणफलम्।
नन्वत्र गोपिण्डमात्रे सत्यं स्मृतिरेवैषा सम्प्रत्यवगतगवयसादृश्यविशिष्टत्वं तु तस्य पूर्वमनुपलब्धमधुनैव गम्यते इति न तस्मिन्नेषा स्मृतिः, मैवम् , गव. यसादृश्यस्यापि तत्र पूर्व ग्रहणात ,
नन्वनवगतगवयेन गवि गवयसादृश्यमवगतमिति चित्तम् , व्यक्तितिरस्कृ. तस्य प्रहणात्।
नन्विदमपि चित्रतरं गृहीतं च व्यक्तितिरस्कृतं चेति व्यक्तिहि ग्रहणमेव तत्तिरस्कारे च नास्त्येव ग्रहणम् , उच्यते, नैतदपि चित्रतरम , तथाहि वने गवयमालोक्य नागरको न करेणुमनुस्मरति न करभं न तुरङ्गम् अपि तु विशिष्ट. मेव पिण्डं न च निर्निबन्धनमेवेदं विशिष्टविषयस्मरणमुत्पत्तमर्हति, तस्माद्यत्रे. व परिदृश्यमानपिण्डसादृश्यं पूर्वमवगतं स एव पिण्डो ऽस्मिन्दृश्यमाने स्मरणपथमवतरति नेतर इति, सादृश्यग्रहणमसंवेद्यमानमप्यनभ्यस्तविषयाविनाभा. वस्मृतिबलात्परिकल्प्यते पूर्व च गवयग्रहणाद्विना गवयसदृशीयं गोरिति ग्रामी. णस्यानुभवो न भवतीति व्यक्तितिरस्कृतं तत्सादृश्यग्रहणमुच्यते इति न कि चिचित्रम, तस्मात्स्मृतिरेवेयं तथा हि प्रतीतिः अनेन सदृशो गौः मया नगरे दृष्ट इति, नत्वद्येतत्सदृशा गोर्डश्यते इति बुद्धिः ।
ननु प्रतियोगिग्रहणाद्विना कथं ग्राम्यस्य सादृश्यग्रहणम् , अत्र भवतैवात्मनः प्रतिकूलमभिहितम्
सामान्यवञ्च सादृश्यमेकैकत्र समाप्यते ।
प्रतियोगिन्यदृष्टेपि तस्मात्तदुपलभ्यते(१) ।। इति । (१) श्लोकवातिके उपमानग्रन्ये श्लो० ३६ । ननु प्रतियोग्यपेक्षस्य साहायस्य प्रतियोगिनोऽग्रहे कथं ग्रहणमत आह-सामान्यवदिति । यदि द्वयोव्यासक्तं सा. दृश्यं स्यात् तदा प्रतियोगिनोऽग्रहे न गृह्येत अस्ति च प्रत्येकपर्याप्तं सादृश्य जातिवत् अतो गवयेऽपि कृत्स्नस्य गोसाश्यस्य सरवादगृह्यमाणेऽपि गवि स्मर्यमाणेऽपि युक्त सारश्यस्य प्रत्यक्षमितिभावः ।