________________
न्यायमञ्जयाम् स च भूयोऽवयवसामान्ययोगोऽगृहीतगवयेनापि नागरकेण ग्रहीतुं शक्यते।
अथ तदा तद्ग्रहणे ऽपि सति न तस्य सदृशप्रत्ययः, न तर्हि भूयोऽवय. वसामान्ययोगः सादृश्यम् , यथोक्तं सादृश्यं सहशप्रत्ययहेतुत्वमेव सादृश्यम् , भूयोऽवयवसामान्ययोगे च तल्लक्षणे चित्तादावव्याप्तिः, अतिव्याप्तिश्च प्राण्यन्तरेषु विसदृशेष्वपि तदवयवसामान्यानां खुरादीनां भावात्, भूयस्त्वं तु कियत्तेषामिति न विद्मः, यावता सदृशप्रत्ययोत्पत्तिरिति चेत् तर्हि सदृशप्रत्ययहेतुत्वमेव सादृश्यमस्त्वित्युक्तम् , तस्माद् गवयदर्शनात्पूर्वमपि गव्यनभिव्यक्तसादृश्यग्रह णोपपत्तेः स्मृतिरेवेयम् ।
अथ मतं यथा नैयायिकानामतिदेशवाक्यवेलायां सोपप्लवा संज्ञासंज्ञि. सम्बन्धबुद्धिरुपमानं निरुपप्लवीभवति एवमियमपि या ऽसौ पूर्व व्यक्तितिर. स्कृता गवि गवयसादृश्यबुद्धिरभूत्सेदानीमुपमानाद्यक्तीभविष्यतीति ।
नैतदस्ति गवयग्राहिणा प्रत्यक्षेणैव तत्स्पष्टतासिद्धः यथा भवद्भिनैयायिका उक्ताः 'अथ त्वधिकता का चित्प्रत्यक्षादेव सा भवेत्' इति (१), तथा नैयायिका अपि युष्मान्वक्ष्यन्ति ।
ननु वनस्थप्रमातुर्गवयविषयं प्रत्यक्षं कथं ग्रामवत्तिनि गवि सादृश्यबुद्धेः स्पष्टतामादधीत, किं कुर्मस्तदर्शनानन्तरं सुस्पष्टतत्सादृश्यविशिष्टगोपिण्डस्म. रणात् । __ नन्वत एवेदमुपमानं प्रमाणान्तरमुच्यते प्रत्यक्षस्य सन्निहितगवयस्वरूपमात्रनिष्ठत्वात् , परोक्षे च गवयसादृश्यप्रत्ययस्य विस्पष्टस्यान्यतोऽसिद्धेरिति, उ. क्तमत्र स्मृतिरेवेयं तथाऽवभासनात् , अनधिगतार्थप्राहि च प्रमाणमुपगच्छन्ति भवन्तः, भवतु स्मृतिविलक्षणेयं प्रतीतिः तथा ऽप्यनुमानजन्यत्वान्न प्रमाणान्त. रमाविशति, स्मर्यमाणे गौः धर्मी एतत्सदृश इति साध्यो धर्मः एतदवयवसामान्ययोगित्वात्सन्निहितद्वितीयगवयपिण्डवत्, तदसन्निधाने सामान्येन व्याप्तिदर्शयितव्या यत्र यदवयवसामान्ययोगित्वं तत्र तत्सादृश्यं यथा यमयोरिति, विशिष्टस्य तद्योगस्य हेतुत्वान्नानकान्तिकत्वम् , सामान्ययोगो ऽन्यो ऽन्यच्च सा. दृश्यमित्युक्तत्वान्न प्रतिज्ञार्थंकदेशो हेतुः, अव्युत्पन्नस्य नारिकेलद्वीपवासिनो
(१) श्लोकवार्तिके उपमानग्रन्थे श्ला० ९। यावद्धीन्द्रियसम्बन्धस्तत्प्रत्यक्ष मितिस्थितम् इति उत्तरार्द्धम् । प्रत्युत्पन्नकारणजन्यं यदनवगतविषयं ज्ञानं तदनुवादः तव स्मृतिवन्न प्रमाणम् मतोऽतिदेशवाक्यावगतं यदन गृह्यते तत्तावन्न प्रमेयम् यत्व. नवगतं गवयस्वरूपं तस्य च साहपविशिष्टत्वं तत्प्रत्यक्षमेवेत्याह-अथेति । ननु उपल. ब्धगवयस्य स्मरणान्तरितेन्द्रियव्यापारं कथं प्रत्यक्षमत आह-यावदिति । प्रत्यक्षसूत्रे 'नहि स्मरणतो यत्प्राक् तत्प्रत्यक्षमिति स्मृतम्' इति ।