________________
प्रमाणप्रकरणम्
१३५
बालस्य वा तत्प्रत्ययानुत्पादान्न व्याप्तिनैरपेक्ष्येण सा प्रतीतिरिति वक्तव्यम् , तस्मादित्थमनुमानजन्यत्वात्स्मृतित्वाद्वा पूर्वोक्तादसम्भवादेव वा नेयमवगतिरुप. मानकार्येति सिद्धम , कश्चास्य भवदुपमानस्य स्वतन्त्रोपयोग एवं ह्याहुर्भवन्तः(१)
अपरीक्षामिषेणापि लक्षणानि वदन्नयम् ।
न स्वतन्त्रोपयोगित्वनिरपेक्षाणि जल्पति ।। ननूक्त एवोपयोगः सौर्ये चरौ द्रव्यदेवतासारूप्यादाग्नेयविध्यन्तलाभः आ. ग्नेयो ऽएकपाल इत्युपदिष्टादृष्टेतिकर्तव्यताकलापतया निराकाङ्क्षा विधिः सौर्य चकै निर्वपेद् ब्रह्मवर्चसकाम इत्यत्र प्रधानमात्रोपदेशाद्विध्यादिरस्ति न तु विध्यन्त इतिकर्तव्यताऽभिधानम् , न चानितिकर्तव्यताकं कर्म प्रयोगयोग्यम् , अतः किमीयमितिकर्तव्यताजातमिह गृह्यतामित्यपेक्षायां चरुपुरोडशयोबीया. द्यौषधसाधनत्वेन द्रव्यसादृश्यात्सूर्याग्न्याश्च तेजस्वितया देवतयोः सारूप्यादाग्ने. येतिकर्तव्यता सौर्ये क्रियते इत्युपमानाद् गम्यते, अपि च क चिच्चोदितद्रव्यादावलभ्यमाने प्रतिनिध्युपादानेन कर्मसमापनात्प्रतिनिधिमात्रोपादाने प्राप्ते व्रीहिसहशनीवारोपादानमुपमानात्प्रतीयते इति, तदाह
भिन्ना ऽनुमानादुपमेयमुक्ता सौर्यादिवाक्यैरसहापि दृष्टम् । सादृश्यतोऽग्न्यादियुतं कथं नु प्रत्याययेदित्युपयुज्यते नः ।। प्रतिनिधिरपि चैवं व्रीहिसादृश्ययोगाद् भवति तदपचारे यत्र नीवारजातौ । तदपि फलमभीष्टं लक्षणस्योपमायाः
प्रकृतिरपि च गौणैर्बाध्यते यत्र चान्यैः(२)॥ (१) श्लोकवातिके शब्दलक्षणग्रन्थे श्लो० ७ । 'शास्त्रं शब्दविज्ञानादसनिकृष्टेऽथे. विज्ञानम्' इति भाष्ये प्रत्यक्षादिषु शब्दमात्रस्य लक्षणे प्रतिपादनीये शास्त्रस्य लक्षणं कथमभिहितमिति शङ्कायाः समाधानमिदम् अपरीक्षामिषेणेति । मिषेण छलेन स्वतन्त्रो वेदः वेदं व्याख्यातुकामस्य शब्दलक्षणं नातोवोपयुक्तमिति भावः।
(२) श्लोकवार्तिके उपमानग्रन्थे इला० ५२। कः पुनरुपमानस्य प्रमाणान्तरस्य स्वतन्त्रोपयोग इति दर्शयति भिन्नेति। न हि सौर्यतद्वाक्ययोराग्नेयतद्वाक्याभ्यामन्वयो. गृहीतःयेनानुमान स्यात निर्वापो लोकवेदसाधारणः एवं तद्धितनिर्देशादयोऽपि प्रमाणान्त. रेण तूपमानेन आग्नेयवाक्यप्तहशेन सौर्यवाक्येनोपमितम् । अग्न्यादियुतमाग्नेयवाक्यं स्वार्थमुपस्थापयति यस्य च त्र्यंशस्य साध्यसाधनांशानपेक्षितत्वाद्भावना इत्यन्तिमांशो. ऽपेक्षावशात्सौर्यभावनया गृह्यते एवमस्योपयोगः इति ( न्यायरत्नाकरः )