________________
१३६
न्यायमञ्जर्याम्
मीमांसकानां स्वोक्तिविरोध:तदेतदसमञ्जसम् , प्रसिद्धनाप्रसिद्धस्य सादृश्यमवगम्यते इत्येष भवद्भिरु. त्सृष्टः पन्थाः, विपर्ययस्तु आश्रितः, यदप्यदृष्टेन नूतनेनाप्रसिद्धेन गवयेन वाक्य. सिद्धस्य गोः सादृश्यमुपमानात्प्रतीयते इति तदिहापि निझतेतिकर्तव्यताकेन गोवत्प्रसिद्धनानेयेन सौर्यस्य गवयवदप्रसिद्धस्य सादृश्यमवगम्यते न तु गवयेन गोः सौर्येणाग्नेयस्य, तदिह यस्य विध्यन्तार्थिता न तत्रोपमानात्सादृश्यावगमो यत्र वा तदवगमो न तत्रेतिकर्तव्यतार्थित्वम् ,
ननु सौर्य विध्यन्तार्थिनि प्रतीयमाने द्रव्यदेवतासारूप्यादेराग्नेयः स्मरणपथमवतरतीति तत एवासौ विध्यन्तमधिगच्छतीति, एवमपि स्मरणमात्रासिद्ध ऽर्थे किमुपमानेन, आग्नेयस्मरणादेव तदितिकर्तव्यता सौर्य उपादास्यते, स्मृ. तिविशेष एव विषयाधिक्यादुपमानमुच्यते इति चेत्प्रतिविहितमेतदित्यलं प्रसङ्गेन।
किं चोपमानप्रतिपादितार्थो न चोदनालक्षणतां बिभर्ति । तस्मान्न युज्येत ततो ऽधिगन्तुमाग्नेयविध्यन्तविशेषलाभः ।। प्रतिनिधिरपि चैवं नास्ति नीवारजाते. न हि भवदुपमानाद् व्रीहिसादृश्यबुद्धिः । भवति तु मतिरेषा व्रीहयस्तत्सहक्षा इति न च फलमस्याः किं चिदस्ति प्रतीतेः ।। भवत्यङ्गं यागे क चन गवयालम्भनमतः तदाकारज्ञाने प्रतिनिधिविवेके च कृतिनाम् ।
उपायत्वं युष्मत्कथितमुपमानं न भजते । . परिणाह्यं तस्मात्प्रवरमुनिगीतं सुमतिभिः ।।
इति द्वितीयमाह्निकम् ॥
प्रयोजनान्तरमाह--प्रतिनिधिरितिपादत्रयेण एवं ब्रीह्यपचारे सहशतया नीवारेषु अवगतेषु तत्सहशत्वेन च व्रीहिन्वयमिति बीयवयवसामान्यावगमात्तलाभाय तेषां प्र. तिनिधिः सिध्यतीति । प्रयोजनान्तरमाह प्रतिकृतिरित्यादिना । उपमानेन हि काचि. प्रतिकृतिः सायं गौणैः सामान्यैरीषत्सदृशं बाध्यते हत्यर्थः ( न्यायरत्नाकरः)