________________
प्रमाणप्रकरणम्
शब्दप्रमाणलक्षणम् - उपमानानन्तरं शब्दस्य विभागसूत्रे निर्देशात्तस्य लक्षणं प्रतिपादयितुमाह
आप्तोपदेशः शब्दः ॥ ७ ॥ उपदेशः शब्द इत्युच्यमाने पयोयमात्रोच्चारणादकारके शब्दमात्रे प्रसक्तिरिति प्रत्यक्षसूत्राज ज्ञानपदस्य स्मृतिजनकस्य व्यवच्छेदार्थ चार्थग्रहणस्य सं. शयविपर्ययजनकनिराकरणाय च व्यवसायात्मकाव्यभिचारपदयोरनुवृत्तिरित्ये वमव्यभिचारादिविशेषणार्थप्रतीतिजनक उपदेशः शब्द इत्युक्तं भवति ।
तदेवं पर्यायमेवोपदेशशब्दं शब्दलक्षणमपेक्षितपूर्वसूत्रोपात्तविशेषणपदं के चिद्याचक्षते, प्राप्तग्रहणं च लक्षणनिश्चयार्थमाहुः, 'घ्राणरसनत्वक्चक्षुःश्रोत्रा. णीन्द्रियाणि भूतेभ्य'(१) इत्यत्र भूतग्रहणं वक्ष्यते, एवं हि ऐतिह्यस्य न प्रमाणान्तरता भविष्यति उपदेशरूपत्वाविशेषादिति । ___ अन्ये तु ब्रुवते युक्तमुपदेशपदमेव शब्दलक्षणं युक्तं च तन्निश्चयार्थमाप्तप्र. हणं पूर्वसूत्रोपात्तविशेषणपदानुवृत्तिस्तु नोपयुज्यते सामान्यलक्षणानन्तरं विशे. पलक्षणप्रक्रमात्, सामान्यलक्षणेन च स्मृत्यादिजनकसकलप्रमाणाभासव्युदासे कृते सजातीयप्रत्यक्षादिव्यवच्छेद एव केवलमिदानी वक्तव्यः, तत्र च पर्याय तापर्याप्तमुपदेशपदमेव बुद्ध्यादिपदवदिति किं विशेषणानुवृत्तिक्लेशेनेति । ___ अपर आह-अनवलम्बितसामान्यलक्षणानुसरणदैन्यमनध्याहृतप्रात्तनविशेषणपदमाप्तोपदेशः शब्दलक्षणं न चाकारकेण शब्दान्तरकारिणा वा स्मृतिजनकेन वा संशयाधायिना वा शब्देन किं चिदुपदिश्यते इति निर्वचनसव्यपेक्षादुपदेशग्रहणादेव तन्निवृत्तिः सिद्धा, मिथ्योपदेशे तु रथ्यापुरुषादिवचसि विपरीतप्रतीतिकारिणि प्रसङ्गो न निवर्त्तते इति तत्प्रतिक्षेपार्थमाप्तग्रहणम् , ऐतिह्ये यथार्थप्रतीतिहेतावाप्तानुमानान्न प्रमाणन्तरत्वमिति, तस्माद्यथाश्रुतमेव सूत्रं शब्दलक्षणार्थ युक्तम् , ___ भवत्वेवम् उपदिश्यते इति को ऽर्थः, अभिधानक्रिया क्रियते, केयमभिधानक्रिया नाम प्रतीतिरिति चेञ्चक्षुरादेरपि तत्करणत्वादुपदेशत्वप्रसङ्गः, स्वसादृश्येन प्रतीतिरिति चेद् बिम्बस्यापि पादाद्यनुमितावुपदेशत्वप्रसङ्गः, शब्दे च तदभावादनुपदेशत्वं स्यात् , शब्दावच्छिन्ना प्रतीतिरिति चेच श्रात्रस्य तज्जनकत्वादुपदेशत्वप्रसङ्गः, शब्दस्य च स्वावच्छेदेन प्रतीतिजकत्वनिषेधादनुपदेशत्वप्रसङ्गादित्यभिधानक्रियास्वरूपानिश्चयान्न तस्याः करणमु.
(१) गौतमसूत्रम् । अ० १ । मा० १ सू० १२
१८ न्या