________________
१३८
न्यायमअर्याम्
"
पदेशः, उच्यते, श्रोत्रग्राह्यवस्तु करणिका तदर्थप्रतीतिरभिधानक्रिया इत्थं लेाके व्यवहारात् उक्तो ऽभिहितश्च स एवार्थी लोके व्यपदिश्यते यस्तु तथाविधप्रतीतिविषयतां प्रतिपन्नः श्रोत्रग्राह्यस्य वर्णराशेरेवार्थप्रतीतिकरणत्वान्न तु श्रोत्रप्रत्ययाविषयविशेषः स्फोटात्मा शब्दः, श्रोत्रग्रहणे हार्थे शब्दशब्दः प्रसिद्धः वर्णा एव च श्रोत्रग्रहणाः, यतो ऽर्थप्रतीतिः स शब्द इति तुच्यमाने धूमादिरपि शब्दः स्यात्, अगृहीतसम्बन्धश्च शब्दः शब्दत्वं जह्यादर्थप्रतिपत्तेरकरणात् ।
ननु प्रतीतेः संविदात्मकत्वान्नाभिधानक्रिया नाम का चिदपूर्वा सावदन्या विद्यते तत्करणस्य चोपदेशतायामतिप्रसङ्ग इत्युक्तम्, सत्यम्, सम्विदात्मैव सर्वत्र प्रतीतिः सा चक्षुरादिकरणिका प्रत्यक्षफलं श्रोत्रामाद्यकरणिका ऽनुमानफलम् श्रोत्रग्राह्यकरणिका शब्दफलम्, न हि दृश्यते अनुमीयते ऽभिधीयते इति पर्यायशब्दः, तत्प्रतीतिविशेषजनने च शब्दस्योपदेशत्वमुच्यते विवक्षादौ तु तस्य लिङ्गत्वमेवेत्यलं प्रसङ्गेन ।
तो भाष्यकृता व्याख्यातः, आप्तः खलुसाक्षात्कृतधर्मा यथा दृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्तः उपदेष्टा चेति ।
धर्म इत्युपदेष्टव्यः कश्चिदर्थो विवक्षितः । साक्षात्करणमेतस्य यथार्थ उपलम्भनम् ॥
न तु प्रत्यक्षेणैव ग्रहणमिति नियमः अनुमानादिनिश्चितार्थौपदेशिनो ऽप्यासत्वानपायात् ।
चिख्यापयिषया युक्त इत्युक्ता वीतरागता । उपदेष्टेत्यनेनोक्तं प्रतिपादनकौशलम् ॥
वीतरागोऽपि मूकादिरुपदेष्टुमशक्तः किं कुर्यात्, वक्तुं शक्तो ऽपि साक्षा
त्कृतधर्माण्यवीतरागो न वक्ति तूष्णीमास्ते इति ।
तस्य च प्रतिपाद्ये ऽर्थे वीतरागत्वमिष्यते 1 सर्वथा वीतरागस्तु पुरुष ः कुत्र लभ्यते ॥ ऋष्यार्य म्लेच्छ सामान्यं वक्तव्यं चाप्तलक्षणम् । एवं हिले प्याप्तोत्त्या व्यवहारो न नङ्क्षचति ॥
येऽप्याप्तिं दोषचयमाचक्षते तैरपि दोषक्षयः प्रतिपाद्यार्थेष्वेव वर्णनीयो ऽन्यथा लोके दृश्यमानस्याप्तोक्तिनिबन्धस्य व्यवहारस्य निह्नवः स्यात्, अथ वा वेदप्रामाण्यसिद्ध्यर्थत्वाच्छास्त्रस्य तत्प्रणेतुराप्तस्येश्वरस्य यथाश्रुतमेवेदं लक्षणं स साक्षात्कृतधर्मैव धर्मस्येश्वर प्रत्यक्षगोचरत्वात्, चिख्यापयिषया प्रयुक्त इति कारुणिक एव भगवानिति वच्यते, उपदेष्टा च वेदाद्यागमानां तत्प्रणीतत्वस्य समर्थयिष्यमाणत्वादिति ।