________________
प्रमाणप्रकरणम्
आह आस्तां तावदेतद् इदं तु चिन्त्यतां किमर्थमिदं पुनः शब्दस्य पृथग्लक्षणमुपवण्यते
शब्दस्यानुमानान्तर्भावाक्षेपःशब्दस्य खलु पश्यामो नानुमानाद्विभिन्नताम् । अतस्तल्लक्षणाक्षेपान्न वाच्यं लक्षणान्तरम् ।। परोक्षविषयत्वं हि तुल्यं तावद् द्वयोरपि । सामान्यविषयत्वं च सम्बन्धापेक्षणाद् द्वयोः ।। अगृहीते ऽपि सम्बन्धे नैकस्यापि प्रवर्त्तनम् । सम्बन्धश्च विशेषाणामानन्त्यादतिदुर्गमः ।। यथा प्रत्यक्षता धूमं दृष्ट्वा ऽग्निरनुमीयते । तथैव शब्दमाकर्ण्य तदर्थो ऽप्यवगम्यते ।। अन्वयव्यतिरेको च भवतो ऽत्रापि लिङ्गवत् । यो यत्र दृश्यते शब्दः स तस्यार्थस्य वाचकः ।। पक्षधर्मत्वमप्यस्ति शब्दः एव यतो ऽर्थवान् । प्रकल्पयिष्यते पक्षो धूमो दहनवानिव ॥ तत्र धूमत्वसामान्यं तद्वदत्रापि वक्ष्यते। एवं विषयसामग्रीसाम्यादेकत्वनिश्चये ।। न विलक्षणतामानं किं चिदन्यत्वकारणम् । पूर्ववर्णक्रमोद्भुतसंस्कारसहकारिता ॥ पुरुषापेक्षवृत्तित्वं विवक्षानुसूतिक्रमः । इत्यादिना विशेषेण न प्रमाणान्तरं भवेत् ॥ कार्यकारणधर्मादिविशेषो ऽत्रापि नास्ति किम् । यथेष्टविनियोज्यत्वमपि नान्यत्वकारणम् । हस्तसंज्ञादिलिङ्गेऽपि तथाभावस्य दर्शनात् ।। दृष्टान्तनिरपेक्षत्वमभ्यस्ते विषये समम् । अनभ्यस्ते तु सम्बन्धस्मृतिसापेक्षता द्वयोः॥ अनेकप्रतिभोत्पत्तिहेतुत्वमपि विद्यते । अस्पष्टलिङ्गे कस्मिंश्चिदश्व इत्यादिशब्दवत् ॥ स्फुटार्थानवसायाश्च प्रमाणाभासतो यथा । लिङ्गे तथैव शब्दे ऽपि नानार्थभ्रमकारिणि ।। अपि च प्रतिभामात्रे शब्दाजाते ऽपि कुत्र चित् । आप्तवादत्वलिङ्गेन जन्यते निश्चिता मतिः ।।