________________
१४०
न्यायमञ्जर्याम्
अत एव हि मन्यन्ते शब्दस्यापि विपश्चित: । आप्तवादाविसम्वादसामान्यादनुमानताम् ।। किं च शब्दो विवक्षायामेव प्रामाण्यमश्नुते । न बाह्ये व्यभिचारित्वात्तस्यां चैतस्य लिङ्गता ।।
शब्दस्यानुमानास्पार्थक्यम्--- तत्राभिधीयते-द्विविधः शब्दः, पदात्मा वाक्यात्मा चेति, तत्र वाक्यमन. वगतसम्बन्धमेव वाक्यार्थमवगमयितुमलम , अभिनवविरचितश्लोकश्रवणे सति पदसंस्कृतमतीनां तदर्थावगमनदर्शनात् , अतः सम्बन्धाधिगममूलप्रवृ. त्तिना ऽनुमानेन तस्य कथं साम्यसम्भावना, पदस्य तु सम्बन्धाधिगमसापेक्षत्वे सत्यपि सामग्रीभेदाद् विषयभेदाच्चानुमानाद्भिन्नत्वम् , विषयस्तावद्विसदृश एव पदलिङ्गयोः, तद्वन्मात्रं पदस्यार्थ इति च स्थापयिष्यते, अनुमानं तु वाक्यार्थविषयम् अत्रानिरनिमान्पर्वत इति ततः प्रतिपत्तेः, उक्तं च तत्र धर्मविशिष्टो धर्मी साध्य इति ।
ननु पदान्यपि वाक्यार्थवृत्तीनि सन्ति गोमानौपगवः कुम्भकार इति, सत्यम् , किं तु तेष्वपि साकाङ्क्षप्रत्ययानुत्पादात् , गोमान्क इत्याकाङ्क्षाया अनिवृत्तेः।
अपि च पर्वतादिविशेष्यप्रतिपत्तिपूर्विका पावकादिविशेषणावगतिलिङ्गादु-. देति पदात्तु विशेषणावगतिपूर्विका विशेष्यावगतिरिति विषयभेदः ।
ननूक्तं यथा ऽनुमाने धर्मविशिष्टो धर्मी साध्य एवमिहार्थविशिष्टः शब्दः साध्यो भवतु, मैवम् , शब्दस्य हेतुत्वात् , न च हेतुरेव पक्षो भवितुमर्हति ।
ननु.यथा अमिमानयं धूमो धूमवृत्त्वान्महानसधूमवदित्युक्तं 'सा देशस्यामि. युक्तस्य धूमस्यान्यैश्च कल्पिता इति (१), एवं गोशब्द एवार्थवत्त्वेन साध्यतां गोशब्दत्वादित्यादि सामान्यं च हेतूक्रियतामिति, एतदपि दुर्घटम् , शब्दस्य धर्मिणः किमर्थविशिष्टत्वं वा साध्यते प्रत्यायनशक्तिविशिष्टत्वं वा अर्थप्रतीतिविशिष्टत्वं वा न तावदर्थविशिष्टत्वं साध्यं शैलज्वलनयोरिव शब्दार्थयाः धर्मधर्मिभावाभावात् , ___ अथार्थविषयत्वाच्छब्दस्यार्थविशिष्टतेत्युच्यते तदप्ययुक्तम् , तत्प्रतीतिजननमन्तरेण तद्विषयत्वानुपपत्तेः, प्रतोतो तु सिद्धायां किं तद्विषयत्वद्वारकेण तद्धर्मत्वेन, यदि तु तद्विषयत्वमूलं तद्धर्मित्वपूर्विकार्थप्रतीतिरर्थप्रतीतिमूलं
(१) श्लोकवार्तिके अनुमानग्रन्थे इला० ४८ । सा प्रमेयता ( अनुमेयता ) अभिविशिष्टस्य प तस्य धूमं धर्मीकृत्य अन्यैस्तार्किकैः स्वीकृतेत्यर्थः ।