________________
प्रमाणपकरणम्
१४१
तद्विषयत्वं तदितरेतराश्रयम् , तस्मानार्थविशिष्टः शब्दः साध्यः, नाप्यर्थप्रत्यायनशक्तिविशिष्टः तदर्थितया शब्दप्रयोगाभावात् ।
न शक्तिसिद्धये शब्दःकथ्यते श्रूयते ऽपि वा।
अर्थगत्यर्थमेवामुं शृण्वन्ति च वदन्ति ॥ नाप्यर्थप्रतीतिविशिष्टः शब्दः पक्षतामनुभवितुमर्हति सिद्धयसिद्धिविकल्पानुपपत्तेः ।
असिद्धया ऽपि तद्वत्त्वं शब्दस्यार्थधिया कथम् ।
सिद्धायां तत्प्रतीतो वा किमन्यदनुमीयते ॥ ज्वलनादावपि तुल्यो विकल्प इति चेद् न हि तत्राग्निधूमेन जन्यते अपि तु गम्यते, इयं त्वर्थप्रतीतिर्जन्यते शब्देनेत्यस्यामेव सिद्धासिद्धत्वविकल्पावसरः, तस्मात्रिधा ऽपि न शब्दस्य पक्षत्वम् ,
अपि च गोशब्दे धर्मिणि गत्वादिसामान्यात्मकस्य हेताहणं ततो व्याप्ति. स्मरणं ततः परामर्शः ततो ऽर्थप्रतिपत्तिरिति कालद्राधीयस्त्वाद्धर्मी तिरोहितो भवेद् न पर्वतवदवस्थितिस्तस्यापि तूच्चरितप्रध्वंसित्वं शब्दस्य, न च शब्दमर्थवत्त्वेन लोकः प्रतिपद्यते किं तु शब्दात्पृथगेवार्थमिति न सर्वथा शब्दः पक्षः, अतो धर्मविशिष्टस्य धर्मिण: साध्यस्येहासम्भवाच्छब्दलिङ्गयोमहान्विषयभेदः।
सामग्रीभेदः खल्वपि पक्षधर्मान्वयादिरूपसापेक्षमनुमानं व्याख्यातं शब्दे तु न तानि सन्ति रूपाणि, तथा च शब्दस्य पक्षत्वप्रतिक्षेपान तद्धर्मतया गत्वादिसामान्यस्य लिङ्गता, न चार्थस्य धर्मित्वं सिद्धयसिद्धिविकल्पानुपपत्तेः, न च तद्धर्मत्वं शब्दस्य शक्यते वक्तुं तत्र वृत्त्यभावात् , प्रतीतिजनकत्वेन तद्धर्मतायामुच्यमानायां पूर्ववदितरेतराश्रयम् , पक्षधर्मादिबलेन प्रवीतिः प्रतीतौ च सत्यां पक्षधर्मादिरूपलाभः, __ अपि च यद्यर्थधर्मतयाशब्दस्य पक्षधर्मत्वं भवेत्तदाऽनवगतधूमाग्निसंबन्धो ऽपि यथा धूमस्य पर्वतधर्मतां गृह्णात्येव तथा ऽनवगतशब्दार्थसंबन्धोऽपि अर्थधर्मतां शब्दस्य गृह्णीयान्न च गृह्णातीत्यतो नास्ति पक्षधर्मत्वं शब्दस्येति, अन्वयव्यतिरेकावपि तस्य दुरुपपादौ देशे काले च शब्दार्थयोरनुगमाभावात् , न हि यत्र देशे शब्दः तत्रार्थः यथोक्तं श्रोत्रियः, मुखे हि शब्दमुपलभामहे भूमावर्थमिति, वयं तु कर्णाकाशे शब्दमुपलभामहे इत्यास्तामेतत् , नापि यत्र काले शब्दः तत्रार्थः तदानीं युधिष्ठिरार्थाभावेऽपि तद्बुद्धयोरन्वयो ग्रहोण्यते इत्युच्यते तर्हि वक्तव्यं किमर्थबुद्धावुत्पन्नायामन्वयो गृह्यते अनुत्पन्नायां वा अनुत्पन्नायां तावत्स्वरूपासत्त्वात्कुतोऽन्वयग्रहणम् , उत्पन्नायां त्वर्थबुद्धौ किमन्वयग्रहणेनेति नष्फल्यम् , तत्पूर्वकत्वे तु पूर्ववदितरेतराश्रयम् , एतेन व्यतिरेकग्रहणमपि व्याख्यातम् ।