________________
१४२
न्यायमञ्जयाँम् नन्वावापोद्वापद्वारेण शब्दार्थसम्बन्धे निश्चीयमाने उपयुज्यते एवान्वयव्य तिरेको, यथोक्तं 'तत्र यो ऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ'इति(१), सत्यमेतत् , किं तु समयबलेन सिद्धायामर्थबुद्धौ समयनियमार्थावन्वयव्यतिरेको शब्देनान्वयव्यतिरेककृता च धमादेरिव ततो ऽर्थबुद्धिः, अपि च
धूमादिभ्यः प्रतीतिश्च नैवावगतिपूर्विकाइहावगतिपूर्वैव शब्दादुत्पद्यते मतिः ॥ स्थविरव्यवहारे हि बालः शब्दात् कुतश्चन ।
दृष्ट्रा ऽर्थमवगच्छन्तं स्वयमप्यवगच्छति ।। तत्राप्येवं समयः क्रियते एतस्माच्छब्दादयमर्थः त्वया प्रतिपत्तव्य इति तत्रापि प्रतीतिरेव, अविनाभावो नाम सम्बन्धः अन्यश्च शब्दार्थयोः समया परनामा वाच्यवाचकभावः सम्बन्धः कारणत्वेन निर्दिष्टो द्रष्टव्यः तस्मादन्यो लिङ्गलिङ्गिनोरविनाभावाद्वाच्यवाचकभावः सम्बन्धः प्रतीत्यङ्गम् । एवंविधविषयभेदात्सामग्रीभेदाच प्रत्यक्षवदनुमानादन्यः शब्द इति सिद्धम् । ___ यत्तु पूर्ववर्णक्रमापेक्षणादिवलक्षण्यमाशङ्कय दूषितं कस्तत्र फल्गुप्राये निर्बन्धः ।
यत्पुनरभिहितम्(२) 'आप्तवादाविसम्वादसामान्यादनुमानता' इति तदतीव सुभाषितम् , विषयभेदात् , आप्तवादत्वहेतुना हि शब्दार्थबुद्धः प्रामाण्यं साध्यते न तु सैव जन्यते, यदाह(३)
(१) लोकवार्तिके वाक्याधिकरणे श्लो. १५७ । 'अन्यथानुपपत्त्या हि शक्ति स्तत्रावतिष्ठते' इति उत्तरार्द्धम् अयमर्थः यं शब्दं योऽर्थोऽन्वेति तस्य शब्दस्य सोऽर्थः इत्यन्यथानुपपस्था तस्य शब्दस्य तत्रार्थे शक्तिरस्तोत्यवगम्यते या वृक्षं वृक्षणेत्यादौ अमाद्यपगमे कर्मत्वं न प्रतीयते वृक्षं घटमित्यादौ अमः सत्त्वे कर्मत्वं प्रतीयते इति अन्वयव्यतिरेकाभ्यां अमादेः कर्मत्वादी शक्तिनिश्चीयते इति ।
(२) श्लोकवार्तिके शब्दलक्षणे श्लो. २३ । 'कालाद्यपेक्षया चान्य उक्ता चान्यैर. मित्रता' इति कारिकापूर्वार्द्धम् । अन्यैः शाक्यैः आप्तवादित्वाविसम्वादित्वयोव्याप्ति. दर्शनात अनुमानतः शब्दस्याभिन्नता उक्ता । शब्दानुमाने शब्दार्थयोः सम्बन्धः पुरु षापेक्षः अग्निधूमयोदेशापेक्षः चन्द्रोदयसमुद्रवृद्धयोः कालापेक्षः इतीतः पूर्वतनश्लो. कस्याभिप्रायः ।
(३) श्लोकवार्तिके वाक्याधिकरणे श्ला. २३१ । आप्तवादत्वामादरेण पदा. र्थेभ्यो वाक्यार्थबोधे जाते अप्रमाण्याङ्कानिवर्तनमात्रमातवादत्वेन क्रियते न च बु. घ्युत्पत्तिः इदमेवाह-अन्यदेवेति । आप्तवादत्वहेतुकं सत्यत्वमन्यत् वाक्यार्थश्चान्यः आप्तवादत्वेन सत्यत्वानुमानेऽपि वाक्यार्थस्यानुमानता नायाति इत्यर्थः ननु बुद्धयुत्प.