________________
प्रमाणप्रकरणम्
१.४३
अन्यदेव हि सत्यत्वमाप्तवादत्वहेतुकम् । वाक्यार्थश्वान्य एवेह ज्ञातः पूर्वतरं च सः ॥ ततश्चेदाप्तवादेन सत्यत्वमनुमीयते । वाक्यार्थप्रत्ययस्यात्र कथं स्यादनुमानता ॥ जन्म तुल्यं हि बुद्धीनमाप्तानाप्तगिरां श्रतो।
जन्माधिकोपयोगी च नानुमायां विलक्षण इति ।। न च प्रामाण्यनिश्चयाद्विना प्रतिमामानं तदिति वक्तव्यं शब्दार्थसम्प्रत्यय स्यानुभवसिद्धत्वात्, ___एतेन विवक्षाविषयत्वमपि प्रत्युक्तम् , न हि विवक्षा नाम शब्दस्य वाच्यो विषयः किं त्वर्थ एव तथा ।
विवक्षायां हि शब्दस्य लिङ्गत्वमिह दृश्यते । आकाशइव कार्यत्वान्न वाचकतया पुनः ।। शब्दादुच्चरिताच्च वाच्यविषया तावत्समुत्पद्यते संवित्तिस्तदनन्तरं तु गमयेत्कामं विवक्षामसौ । अर्थोपग्रहवर्जिता तु नियमात्सिद्धैवमाजीविता तद्वाच्यार्थविशेषिता त्वविदिते नैषां तदर्थे भवेत् ।।
शब्दप्रामाण्याक्षेप:ननु सिद्धे प्रामाणत्वे भेदाभेदपरीक्षणम् । क्रियते न तु शब्दस्य प्रामाण्यमवकल्पते । अर्थप्रतीतिजनकं प्रमाणमिति वर्णितम् । विकल्पमात्रमूलत्वान्नाथै शब्दाः स्पृशन्त्यमी॥ अर्थो निरूप्यमाणश्च को वा शब्दस्य शक्यते । वक्तुं न जातिनं व्यक्तिन्नं तद्वान्नाम कश्चन ॥ सम्बन्धो ऽप्यस्य नार्थेन नित्यो ऽस्ति समयो ऽथ वा । शक्यः सन्नपि वा बोधुमथें कथमतीन्द्रिये ।।
वाक्यार्थो ऽपि न निर्णेतुं पार्यते पारमार्थिकः । त्तिरपि आप्तवादत्वलिङ्गादेव भविष्यति तथाहि आप्तस्य गोपदरचन मर्थान्तरसास्ना. दिमबुद्धिपूर्वकं सा चार्थव्याप्ता तज्ज्ञानं जनयति इति न शब्दस्यानुमानमित्रत्वमत आहजन्मेति-(पक्षसरवावाधितत्वासत्प्रतिपक्षितत्वरूप ) विलक्षण लिङ्गजन्यादिधीरनुमान न चेयं तज्जन्या पदार्थैरेवागृहीतसम्बन्धैरियं जन्यते इति प्रमाणान्तरमेव शब्द इति भावः।