________________
१४४
न्यायमअर्याम् नियोगभावनाभेदसंसर्गादिस्वभावकः ॥ तत्प्रतीत्यभ्युपायश्च किं पदार्थः पदानि वा । वाक्यं वा व्यतिषक्तार्थ स्फोटो वेति न लक्ष्यते ॥ सिद्धायामपि तबुद्धौ तस्या द्रढिमकारणम् । नित्यत्वमाप्तोक्तत्वं वा न सम्यगवतिष्ठते ॥ पदे नित्ये ऽपि वैदिक्यो रचनाः कर्तृपूर्विकाः । नित्या वा कृतकत्वे ऽपि कृताः केनेति दुर्गमम् ॥ कर्ताऽस्ति स च निर्द्वन्द्वः स वैकः स च सर्ववित् । स च कारुणिको वेति प्रतिपत्त न शक्यते ॥ परस्परविरुद्धाश्च सन्ति भूयांस आगमाः। तेषां कस्येश्वरः कर्ता कस्य नेति न मन्महे ॥ वेदे दोषाश्च विद्यन्ते व्याघातः पुनरुक्तता । फलस्यानुपलम्भश्च तथा फलविपर्ययः॥ कीदृशश्चार्थवादनां विरुद्धार्थाभिधायिनाम् । मन्त्राणां नामधेयादिपदानां वा समन्वयः ॥ सिद्धकार्योपदेशाच्च वेदे संशेरते जनाः । किमस्य कायें प्रमाण्यं सिद्धे ऽर्थे वाभयत्र वा ।। तेन वेदप्रमाणत्वं विषमे पथि वर्त्तते । जीविकोपायबुद्धया वा श्रद्धया वा ऽभ्युपेयताम् ।।
शब्दप्रमाणसमर्थनम्अत्रभिधीयते, सर्वएवैते दोषा यथाक्रमं परिहरिष्यन्ते इत्यलं समाश्वासेन सुप्रतिष्ठमेव वेदप्रामाण्यमवगच्छत्वायुष्मान ,
नन्वर्थासंस्पर्शित्वमेव तावत्कथं परिहियते न हि बाह्ये ऽर्थे शब्दाः प्रतीतिमादधति ते हि दुर्लभवस्तुसंपर्कविकल्पमात्राधीनजन्मानः स्वमहिमानमनुवर्त मानास्तिरस्कृतबाद्यार्थसमन्वयान्विकल्पप्रायान्प्रत्ययानुत्पादयन्तो दृश्यन्ते अ. ङ्गल्यग्रे हस्तियूथशतमास्ते इति स्वभाव एव शब्दानामर्थासंस्पर्शित्वम् , चक्षु. रादीनामप्यलीककचकूर्चकादिप्रतीतिकारणत्वमस्ति न च तेषामर्थासंस्पर्शित्वमिति चेत् तेषां हि तिमिरादिदोषकलुषितवपुषां तथाविधविभ्रमकारणत्वं न तु स्वमहिम्नैव, इहापि पुरुषदोषाणामेष महिमा न शब्दानामिति चेद् - ___ मैवम् दोषवता ऽपि पुरुषस्य मूकादेरनुच्चारितशब्दस्येशविप्लवोत्पादनपा. टवाभावात् , असत्यपि च पुरुषहृदयकालुष्ये यथा प्रयुज्यमानान्यङ्गुल्यमादिबाक्यानि विप्लवमावहन्त्येवेति शब्दानामेवैष स्वभावो न वक्तदोषाणाम् , अपि