SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् १४५ चन चक्षुरादिबाधकज्ञानोदये सति न विरमति विपरीतवेदनजन्मनः शुक्तिकारजतादिबुद्धिषु विभ्रमस्यापायदर्शनात् ,शब्दस्तु शतकृत्वो ऽपि बाध्यमानो यथैवोच्च. रित: 'करशाखादिशिखरे करेणुशतमास्ते' इति तदैव तथाभूतं भूयोऽपि विकल्प मयथार्थमुत्पादयत्येवेति विकल्पाधीनजन्मत्वाच्छब्दानामेवेदं रूपं यदर्थासं. स्पर्शित्वं नामेति । तदुक्तम्--- विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः । तेषामन्योन्यसम्बन्धे नार्थ शब्दाः स्पृशन्त्यमी ॥ इति । अत्राभिधीयते-भवेदेतदेवं यदि न कदा चिदपि यथार्थ शब्दः प्रत्ययमु. पजनयेत् , अर्थसंस्पर्शित्वमेवास्य स्वभाव इत्यवगम्यते , भवति तु गुणवत्पुरु. षभाषितान्नद्यास्तीरे फलानि सन्तीति वाक्यादतिरस्कृतबाह्यार्थो यथार्थः प्रत्ययः, ततः प्रवृत्तस्य तदर्थप्राप्तः न चेयमर्थप्राप्तिरर्थस्पर्शशून्यादपि शब्दविकल्पापारम्पर्येण मणिप्रभामणिबुद्धिवदवकल्पते इत्युपरिष्टाद्वदयामः। ननु गुणवद्वक्तृकादगुल्यादिवाक्याद् दृष्ट एवासमीचीन: प्रत्ययः, मैवम्गुणवतामेवंविधवाक्योच्चारणचापलाभावात् । यत्तु आप्तो ऽपि कं चिदनुशास्ति मा भवानभूतार्थ वाक्यं वादी: 'अङ्गुलि. कोटौ करिघटाशतमास्ते' इति तत्रेतिकरणावच्छिन्नस्य दृष्टान्ततया शब्दपरत्वे. नोपादानात्प्रतिषेधैकवाक्यतया यथार्थत्वमेव अर्थपरत्वे तु निषेधैकवाक्यतैव न स्यादिति, तस्मादाप्तवाक्यानामयथार्थत्वाभावान स्वतो ऽर्थासंस्पर्शिनः शब्दाः पुरुषदोषानुषङ्गकृत एवायं विप्लवः । नन्वाप्तरेवंविधवाक्याप्रयोगेपि सन्दिग्धो व्यतिरेकः किं शब्दाभावादयथार्थप्रत्ययानुत्पादः उत वक्तदोषाभावादिति नैतदेवम् अनुचरितशब्दो ऽपि पुरुषो विप्रलम्भकः । हस्तसंज्ञायुपायेन जनयत्येव विप्लवम् ॥ न च हस्तसंज्ञादिना शब्दानुमानं तत्कृतश्च विप्लव इति वक्तव्यम् इत्थमप्रतीतेः, उत्पन्ने च क चिन्नद्यादिवाक्याद्विज्ञाने तरङ्गिणीतीरमनुसरन्ननासादितफलः प्रवृत्तबाधकप्रत्ययः पुरुषसेवाधिक्षिपति धिक् हा तेन दुरात्मना विप्रलब्धो ऽस्मीति न शब्दम् प्राप्तफलश्च पुमांसमेव श्लाघते साधु साधुना तेना. पदिष्टमित्यतः पुरुषदोषान्वयानुविधानात्तदभावकृत एव आप्तेषु तूष्णीमासीनेषु विभ्रमानुत्पाद इति न सन्दिग्धो व्यतिरेकः, पुरुषदोषकृत एव शब्दाद्विप्लवो न स्वरूपनिबन्धनः। ___ ननु पुरुषदोषास्तत्र किं कुर्युः पुरुषस्य हि गुणवता दोषवतो वा शब्दोच्चारणमात्रे एव व्यापारः ततः परं तु कार्य शब्दायत्तमेवेति तत्स्वरूपकृत एवायं विभ्र. मः, हन्त तहि वक्तरि गुणवति सति सरितस्तोरे फलानि सन्तीति सम्यक्प्रत्यये १९ न्या०
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy