________________
१४६
न्यायमअर्याम् ऽपि शब्दस्यैव व्यापारात्पुरुषस्योच्चारणमात्रे चरितार्थत्वान्नैकान्ततः शब्दस्या
संस्पर्शित्वमेव स्वभावः युक्तं चैतदेव यदीपवत्प्रकाशत्वमात्रमेव शब्दस्य स्वरूपं न यथार्थत्वमयथार्थत्वं वा विपरीते ऽप्यर्थे दीपस्य प्रकाशत्वानतिवृत्तः, अयं तु विशेषः प्रदीपे व्युत्पत्तिनिरपेक्षमेव प्रकाशत्वं शब्दे तु व्युत्पत्त्यपेक्षमिति, प्रकाशात्मनस्तु शब्दस्य वक्तृगुणदोषाधीने यथार्थतरत्वे, अत एवाङ्गुलिशिखराधिकरणकरेणुशतवचसि बाधिते ऽपि पुनः पुनरुच्चार्यमाणे भवति विभ्रमः प्रकाशकत्वतद्पानपायात् न त्वेष शब्दस्य दोषः ।
पदार्थानां तु संसर्गमसमीक्ष्य प्रजल्पतः ।
वक्तरेव प्रमादो ऽयं न शब्दो ऽत्रापराध्यति । तदुक्तम् , प्रमाणान्तरदर्शनमत्र बाध्यते न पुनहस्तियूथशतमिति शान्दो ऽन्वयः, पुरुषो हि स्वदर्शनं शब्देन परेषां प्रकाशयति तत्र तदर्शनं चेद् दुष्टं दुष्टः शाब्दः प्रत्ययः अदुष्टं चेददुष्ट इति गुणवतः पुरुषस्यादुष्टं दर्शनं भवति दोषवतो दुष्टमिति, अदृष्ट्वा ऽपि वस्तु यदुपदिश्यते सो ऽपि बुद्धिदोष एव, तस्मात्पुरुषगतगुणदोषान्वयव्यतिरेकानुविधायित्वात् तत्कृते एव शाब्दयथार्थत्वायथार्थवे, तदुक्तं 'तथ्यमपि भवति वितथमपि भवति' इति(१)।
तेनाभिधातृदौरात्म्यकृते यमयथार्थता। प्रत्ययस्येति शब्दानां नाथासंस्पर्शिता स्वतः ।। या तु जात्यादिशब्दार्थपराकरणवर्मना । अर्थासंस्पर्शिता प्रोक्ता सा पुरस्तानिषेत्स्यते ।। प्रामाण्यं स्वतः परतो वेति विचारावतरणम् । प्रमाणत्वं तु शब्दस्य कथमित्यत्र वस्तुनि । जैमिनीयैरयं तावत्पीठबन्धो विधीयते ॥ प्रामाण्यमप्रामाण्यं वा सर्वविज्ञानगोचरः ।
स्वतो वा परतो वेति प्रथमं प्रविविच्यताम् । ननु शब्दप्रामाण्यचिन्तावसरे सकलप्रमाणप्रामाण्यविचारस्य कः प्रसङ्गः, न स्वातन्त्र्येण परीक्षणमपि तु तदर्थमेव समानमागेत्वात् ,
अथान्येषां स्वतः परतो वा प्रामाण्यं तथा शब्दस्यापि भविष्यतीति न हि तस्य स्वरूपमिव प्रामाण्यमपि तद्विसदृशमिति, तदुच्यते, किं विज्ञानानां प्रामाण्यमप्रामाण्यं चेति द्वयमपि स्वतः(२) उत उभयमपि परत:(३) आहो
(१) शाबरभाष्यम् अ. १ पा. १ सू. २ । (२) इदं सोख्यमतम् । (३) इदंतार्किकमतम् ।