________________
प्रमाणप्रकरणम्
१४७
विदप्रामाण्यं स्वत: प्रामाण्यं तु परतः(१) उत स्वित्प्रामाण्यं स्वतः अप्रामाण्यं तु परत(२) इति,
मीमांसकमतेन सर्वप्रमाणानां स्वतः प्रामाण्यनिरूपणम् । तत्र द्वयमपि स्वत इति तावदसांप्रतम् , प्रवृत्तस्य विसंवाददर्शनात् , यदि हि प्रामाण्यमितरद्वा स्वत एव ज्ञानस्य गम्यते तहि शुक्तौ रजतज्ञानं प्रमाण- ५ तया वा प्रतिपन्नमन्यथा वा ।
प्रमाणत्वपरिच्छित्तौ विसंवदति तत्कथम् ।
अप्रामाण्यगृहीतौ वा तस्मिन्कस्मात्प्रवर्त्तते ।। एतेन तृतीयो ऽपि पक्षः प्रत्युक्त: यदप्रामाण्यं स्वतः प्रामाण्यं परत इति, स्वतो ह्यप्रामाण्ये निश्चित प्रवृत्तिन प्राप्नातोति, किं च अप्रामाण्यमुत्पत्तौ १. कारणदोषापेक्षं निश्चये च बाधकज्ञानापेक्षं तत्कथं स्वतो भवितुमर्हति, यञ्च 'अप्रामाण्यमवस्तुत्वान्न स्यात्कारणदोषत' इति(३) कैश्चिदुच्यते तदपि यत्किञ्चत् , संशयविपर्ययात्मन: अप्रामाण्यस्य वस्तुत्वात्तद्गतमप्रामाण्यमपि वस्त्वेवेति, परतस्तु प्रामाण्यं यथा नावकल्पते तथा विस्तरेणेच्यते, एवं चायं द्वयमपि परत इति द्वितीयपक्षप्रतिक्षेपो ऽपि भविष्यति, १५ अर्थतथात्वप्रकाशकं हि प्रमाणमित्युक्तम् , तस्य स्वप्रमेयाव्यभिचारित्वं नाम प्रामाण्यम् , अतश्च परापेक्षायां सत्यां परत इति कथयितुमुचितम् , न चास्य परापेक्षा क चिद्विद्यते सा हि भवन्ती उत्पत्तौ वा स्यात् स्वकार्यकरणे वा प्रामाण्यनिश्चये वा, उत्पत्तौ कारकस्वरूपमात्रापेक्षा तदतिरिक्ततद्गतगुणापेक्षावा, कारकस्वरूपमात्रापेक्षायां सिद्धसाध्यत्वम् असत्सु कारकेषु कार्यस्य ज्ञानस्या- २० मलाभाभावात् कस्य प्रामाण्यमप्रामाण्यं वा चिन्त्यते, कारकातिरिक्ततदधिकरणगुणापेक्षणं तु दुर्घटम् , अप्रामाणिकत्वेन कारणगुणानामाकाशकुशेशयसदृशवपुषामपेक्षणीयत्वाभावात् ।
न कारणगुणग्राहि प्रत्यक्षमुपपद्यते । चक्षुरादेः परोक्षत्वात्प्रत्यक्षास्तद्गुणः कथम् ॥
२५ लिङ्गं चादृष्टसंबन्धं न तेषामनुमापकम् ।।
यथार्थबुद्धिसिद्धिस्तु निर्दोषादेव कारकात् ।। यदि हि यथार्थत्वायथार्थत्वरूपद्वयरहितं किं चिदुपलब्ध्याख्यं कार्य भवेत्ततः कार्यत्रैविध्यात्कारणत्रैविध्यमवश्यमवसीयेत यथार्थोपलब्धेर्गुणवत्कारकं कारकम् अयथार्थोपलब्धेदोषकलुषं कारकं कारकम् उभयरूपरहितायास्तु 30 (१) इदं सौगतमतम् । (२) इदं मीमांसकमतम् । (३) श्लोलवार्तिके स. २ श्लो.३९।