________________
१४८
न्यायमझयाम् तस्याः स्वरूपावस्थितमेव कारकं कारकमिति, न त्वेवमस्ति, द्विविधैव खल्वि. यमुपलब्धिः यथार्थत्वायथार्थत्वभेदेन तत्रायथार्थोपलब्धिस्तावद् दुधकारककायव दृष्टा। ___ दृष्टः कुटिलकुम्भादिसम्भवो दुष्टकारणत् ।
तथा मानान्तरमितात्तिमिरादेविचन्द्रधीः । अयथार्थोपलब्धौ च दुष्टकारककार्यत्वेन सिद्धायामिदानी तृतीयकार्याभावात् यथार्थोपलब्धिः स्वरूपावस्थितेभ्य एव कारकेभ्यो ऽवकल्पते इति न गुणकल्पनायै प्रभवति, अनुमाने च यैव पक्षधर्मान्वयादिसामग्री ज्ञानस्य जनिका
सैव प्रामाण्यकारणत्वेन दृष्टा, न च स्वरूपस्थितानि कारणानि कार्यजन्मन्यु. १. दासते एव येन यथार्थोपलब्धिजनने तेषां गुणसहकारिता कल्प्यते इत्यतो न
सन्ति कारणगुणाः, नैर्मल्यव्यपदेशस्तु लोचनादेः काचकामलादिदोषापायनिबन्धन एव न स्वरूपातिरिक्तगुणकृतः अजनाधुपयोगो ऽपि दोषनिहरणायैव न गुणजन्मने।
तस्मादवितथा संवित् स्वरूपस्थितहेतुजा । दोषाधिकैस्तु तैरेव जन्यते विपरीतधीः ॥ अत एवाप्रमाणत्वं परतो ऽभ्युपगम्यते ।
जन्मन्यपेक्षते दोषान् बाधकं च स्वनिश्चये ।। तस्मान्नोत्पत्तौ गुणापेक्षं प्रामाण्यम् , नापि स्वकार्यकरणे किं चिदपेक्षते
अर्थप्रकाशनस्वभावस्यैव तस्य स्वहेतोरुत्पादात् , अर्थप्रकाशनमेव च प्रमाण२. कार्य प्रवृत्त्यादेः पुरुषेच्छानिबन्धनत्वात् ।
नैव वा जायते ज्ञानं जायते वा प्रकाशकम् ।
अर्थप्रकाशने किं चिन्न तूत्पन्नमपेक्षते ।। तथा चोक्तम्
मृद्दण्डचक्रसूत्रादि घटो जन्मन्यपेक्षते ।
उदकाहरणे त्वस्य तदपेक्षा न विद्यते ।। इति । अथ वा
सापेक्षत्वं घटस्थापि सलिलाहरणं प्रति । यत्किं चिदस्ति न त्वेवं प्रमाणस्योपपद्यते ।। न च स्वग्रहणापेक्षं ज्ञानमर्थप्रकाशकम् ।
तस्मिन्ननवबुद्धे ऽपि तत्सिद्धेश्चक्षुरादिवत् ॥ उक्तं च 'न ह्यज्ञाते ऽर्थे कश्चिद् बुद्धिमुपलभते ज्ञाते त्वनुमानादवगच्छति'इति(१) तस्मात्स्वकार्यकरणे ऽपि न स्वग्रहणापेक्षं प्रमाणम, नापि प्रामाण्य
(१) शायरभाष्ये अ. १ पा. १ सु. ५
२५