________________
प्रमाणप्रकरणम्
इत्पादः २५
निश्चये किं चिदपेक्षते अपेक्षणीयाभावात् , तथा ह्यस्य कारणगुणज्ञानाद्वा प्रामाण्यनिश्चयो भवेद्वाधकाभावज्ञानाद् वा संवादाद्वा, न तावत्कारणगुणज्ञानाकारणगुणानामिदानीमेव निरस्तत्वात् ।
अपि च न कारकगुणज्ञानमिन्द्रियकारणकम् अतीन्द्रियकारकाधिकरणत्वेन परोक्षत्वाद्गुणानाम् , अपि तूपलब्ध्याख्यकार्यपरिशुद्धिसमधिगम्य- ५ गुणस्वरूपमप्रवृत्तस्य च प्रमातुर्न कार्यपरिशुद्धिर्भवति तन्नेदानी प्रमाण्यनिश्च. यपूर्विका प्रवृत्तिभवेत् , अन्यथा वा, अनिश्चितप्रामाण्यादेव ज्ञानात्प्रवृत्तिसिद्धौ किं पश्चात्तन्निश्चयेन प्रयोजनम् निश्चितप्रामाण्यात्त प्रवृत्तौ दुरतिक्रमः चक्र कक्रकचपातः प्रवृत्तौ सत्यां कार्यपरिशुद्धिग्रहणं कार्यपरिशुद्धिग्रहणात्कारणगुणावगतिः कारणगुणावगतेः प्रामाण्यनिश्चयः प्रामाण्यनिश्चयात्प्रवृत्तिरिति, १० नापि बाधकाभावपरिच्छेदात्प्रामाण्यनिश्चयः स हि तात्कालिको वा स्यात्कालान्तरभावी वा।
तात्कालिको न पर्याप्तः प्रामाण्यपरिनिश्चये। कूटकार्षापणादौ किं चित्कालमनुत्पन्नबाधके ऽपि कालान्तरे तदुत्पाददर्शनात् ।
___ सर्वथा तदभावस्तु नासर्वज्ञस्य गोचरः ॥
अथ संवादात्प्रामाण्यनिश्चय उच्यते तीच्यतां को ऽयं संवादो नाम, किमुत्तरं तद्विषयं ज्ञानमात्रम् उतार्थान्तरज्ञानम् अहो स्विदर्थक्रियाज्ञानमिति आये पक्षे कः पूर्वोत्तरज्ञानयोविशेषो यदुत्तरज्ञानसम्वादात्पूर्व पूर्व ज्ञानं प्रामाण्यमश्नुवीत ।
अपि चोत्तरसंवादात्पूर्वपूर्वप्रमाणताम् । वदन्तो नाधिगच्छेयुरन्तं युगशतैरपि । सुदूरमपि गत्वा तु प्रामाण्यं यदि कस्य चित् ।
स्वत एवाभिधीयेत को द्वेषः प्रथमं प्रति ॥ यदाह
कस्य चित्तु यदीष्येत स्वत एव प्रमाणता।
प्रथमस्य तथाभावे विद्वेषः किंनिबन्धन इति (१)। अथान्यविषयज्ञानमप्यस्य संवाद उच्यते तदयुक्तम् अदर्शनात् , न हि स्तम्भज्ञानं कुम्भज्ञानस्य संवादः,
(१) श्लोकवार्तिके सू. २ श्लो. ४७ । स्वत हति। यदि ज्ञानस्य स्वविषयतथा. त्वावधारणे स्वतः शाकिन स्यात्तदा नान्येनापि संपादयितुं शक्यते अतो न कदाचित् कस्य चित्कश्चिदप्यर्थीऽवधार्यतेत्यानध्यमेवाशेषस्य जगतः प्रसज्येतेति भावः ।