________________
१५०
न्यायमञ्जाम्
१०
अथार्थक्रियाज्ञानसंवादात्प्रथमस्य प्रवर्तकस्य ज्ञानस्य प्रामाण्यमिष्यते तदा पि ह्यनवसितप्रामाण्यं कथमादिमस्य प्रामाण्यमवगमयेत् , कश्चार्थक्रियाज्ञानस्य पूर्वस्माद्विशेषो यदेतदायत्तस्तस्य प्रामाण्याधिगमः, अर्थक्रियाज्ञानत्वमेव विशेष
इति चेत्किल सलिलज्ञानमाद्यमविद्यमाने ऽपि पयसि पूषदीधितिषु दृष्टमिति न ५ भवति विस्रम्भभूमिः, इदं पुनरर्थक्रियासंवेदनमम्बुमध्यवर्तिनः पानावगाह
नादिविषयमपीत्यनवधारितव्यभिचारतया तत्प्रामाण्यनिश्चयाय कल्पते इति, तदसत् , स्वप्ने पानावगाहनस्यापि व्यभिचारोपलब्धेः, किं च चरमधातुविस. गोऽपि स्वप्नसीमन्तिनीमन्तरेण भवतीति महानेष व्यभिचारः।
अथ रागोद्रेकनिमित्तत्वेन पित्तादिधातुविकृतिनिबन्धनत्वेन वा तद्विसर्गस्य । न स्वसाधनव्यभिचार इत्युच्यते तदसमलसम् , असकृदनुभूतयुवतिपरिरम्भाधन्वयव्यतिरेकानुविधायित्वेन तत्कार्यत्वावधारणात् ।
तस्मादर्थक्रियाज्ञानव्यभिचारावधारणात् । तत्प्रामाण्यपरीक्षायामनवस्था न शाम्यति ।।
अथ वा ऽऽप्तफलत्वेन किं तत्प्रामाण्यचिन्तया। न चेदमर्थक्रियाज्ञानमप्रवृत्तस्य पुंसः समुद्भवति तत्र प्रामाण्यावधारणपूर्विकायां प्रवृत्तो कारणगुणनिश्चेयप्रामाण्यचचोंबद्धचक्रकक्रकचचोद्यप्रसङ्गस्तदवस्थ एव, अनिश्चितप्रामाण्यस्य तु प्रवृत्तौ पश्चात्तनिर्णयो भवन्नपि कृतक्षौरस्य नक्षपरीक्षावदफल एवेत्युक्तम् ,
तत्रैतत्स्याद् द्विविधा हि प्रवृत्तिः आद्या चाभ्यासिकी च, तत्राद्या यथा विनिहितसलिलावसिक्तमसृणमृदि शरावे शाल्यादिबोजशक्तिपरीक्षणाय कतिपयबीजकणवापरूपा, ततस्तत्र तेषामकरकरणकौशलमविकलमवलोकयन्तः की. नाशा निःशक़ केदारेषु तानि बीजान्यावपन्तीति सेयमाभ्यासिकी प्रवृत्तिः, एवमिहापि प्रथमपरीक्षितप्रमाणभावादेव ज्ञानात्कुतश्चित्कश्चिद्विपश्चिदपि व्यवहरंस्तद्यवहारपरस्तत्तत्फलज्ञाने तस्य प्रामाण्यमवगच्छन् पुनस्तथाविधे जाते सति सुखमेव प्रवृत्त्यादिकं व्यवहारमशङ्कितकालुष्यः करिष्यतीति न सर्वास्मना वैयर्थ्यमिति, उच्यते विषमो ऽयं दृष्टान्त:
तज्जातीयतया बीजं शक्यते यदि वेदितुम् । तत्र तन्निश्चयायुक्तं निर्विशङ्कं प्रवर्त्तनम् ॥ ज्ञाने तथाविधत्वं तु बोधरूपाविशेषतः । कार्याद्वा कारणाद्वा ऽपि ज्ञातव्यं न स्वरूपत ॥ इति । कारणानां परोक्षत्वान्न तद्द्वारा तदा गतिः । कार्यात्त नाप्रवृत्तस्य भवतीत्युपवर्णितम् ।। तस्माद्वैयथ्यचौद्यस्य नायं परिहतिक्रमः ।
२५