________________
प्रमाणमकरण
एवं चार्थक्रियाज्ञानात्कीदृक् प्रामाण्यनिश्चयः ।। समर्थकारज्ञानाद्यो ऽपि प्रामाण्यनिश्चयम् । ब्रूते सेोऽपि कृतोद्वाहस्तत्र लग्नं परीक्षते ॥ किलातिविकसितकुसुम मकरन्दपानमुदितमधुकरकुले कस्मिंश्चिदुद्याने वाद्यमानायां वीणायां निरन्तरज्ञतासन्तानान्तरितवपुषि विदूरादनवलोक्यमाने ५ बादके वीणाध्वनिसंविदि रोलम्बनादसंदेहदूषितायां तदभिमुखमेव प्रतिष्ठमानः श्रोता परिवादके दर्शनपथमवतीर्णे स्वरानुकूल कारण निश्चयात्तत्प्रतीत संशय निवृत्तेः प्रामाण्यं निश्चिनोतीत्येष समर्थकारणज्ञानकृतः प्रामाण्यनिश्चयः ।
तत्रापि नाप्रवृत्तस्य हेतुसामर्थ्य दर्शनम् । एवमेव प्रवृत्तौ तु निश्चितेनापि तेन किम् ||
तन्निश्चयात्प्रवृत्तौ वा पुनरन्योन्यसंश्रयम् । तन्निश्चयात्प्रवृत्तिः स्यात्प्रवृत्तस्तद्विनिश्वयः ||
१५१
तदेवं न कुतश्चिदपि प्रामाण्यनिश्चयः चक्रकेतरेतराश्रयानवस्थावैयर्थ्यादिदूषणातीत स्थितिरस्तीति, अतः प्रामाण्यनिश्चयेऽपि न किं चिदपेक्षते प्रमाणम्, १५ ततश्चोत्पत्तौ स्वकार्यकरणे स्वप्रामाण्यनिश्चये च निरपेक्षत्वादपेक्षात्रयरहितत्वात्स्वतः प्रामाण्यमिति सिद्धम् । तदुक्तम् ( १ ) |
स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् । न हि स्वतो ऽसती शक्तिः कर्तुमन्येन पार्यते ॥
अप्रामाण्यं तूत्पत्तौ दोषापेक्षत्वात्स्वनिश्चये बाधकप्रत्ययादिसापेक्षत्वात्परत इत्युक्तमेव, तस्मात्पक्ष त्रयस्यानुपपत्तेश्वतुर्थ एवायं पक्षः श्रेयान्, प्रामाण्यं स्वतः प्रामाण्यं परत इति ।
ननु चोत्पत्ति वेलायां न विशेषो ऽवधार्यते । प्रमाणेतरयोस्तेन बलाद्भवति संशयः ॥
परिच्छित्तिमात्रं प्रमाणकार्य तच्च यथार्थेतरप्रमितिसाधारणं रूपं साधारधर्मग्रहणं च संशयकारणमिति प्रसिद्धः पन्थाः । एवं च स्थितेप्रमाणान्तरसंवादविसंवादौ विना कथम् ।
प्रमाणेतर निर्णीतिरतश्च परतो द्वयम् ।
(१) लोकवार्त्तिके सु. २ श्लो. ७६ संङ्गत्या तदि चेष्येत पूर्वपूर्वप्रमाणता । प्रमा. णान्तरमिच्छन्तो न व्यवस्थां लभेमहि । इति पूर्वः श्लेाकः अयमभिप्रायः संगत्या संवादेन यदि प्रमाणता स्वीक्रियते तदाऽव्यवस्था, कस्यचित्संवादमन्तरा स्वतः प्रामायाङ्गीकारे तु प्रथमस्य स्वतः प्रामाण्याङ्गीकारे केा द्वेष इति ।
२०
२५