SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १५२ न्यायमञ्जर्याम् तदेतदचतुरस्रम् , सत्यं परिच्छित्तिरेव प्रमाणकार्यम् , सा पुनरुपजायमानव न संदेहादिदूषिततनुरुपलभ्यते इत्यौत्सगिकं प्रामाण्यमेव सा भजते । अर्थपरिच्छेदाच प्रवर्त्तमानः प्रमाता प्रमाणेनैव प्रवर्तितो भवति न संशयात्प्र वृत्तः, स्थितिश्चैवमौत्सर्गिके प्रामाण्ये यत्र तस्यापवादः क चिद्भवति तत्राप्रा५ माण्यम् अप्रामाण्ये चावश्यंभावी अपवादः द्विविध एव तदपवादः बाधकप्रत्य यः कारणदोषज्ञानं च, तदुक्तं भाष्यकृता(१), 'यत्र च दुष्टं करणं यत्र च मि. ध्येति प्रत्ययः स एवासमीचीनः प्रत्ययो नान्य' इति, वात्तिकककरोऽप्याह(२) तस्माद्बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता । अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते इति । तत्र बाधकज्ञानं पूर्वज्ञानोपमर्दद्वारेणैव तस्मिन्विषये जायते इति समा नविषयत्वात्स्पष्टमेव बाधकम् , कारणदोषज्ञानं तु भिन्नविषयमपि कार्यक्याद्बाधकता प्रतिपद्यते, यथा चमसेनापः प्रणयन्तीति दर्शपूर्णमासाङ्गत्वात् क्रत्वर्थश्चमसः गोदोहनेन पशुकामस्य प्रणयेदिति काम्यमानपशुनिर्देशात्पुरुषार्थगोदो. हनेन निवृत्ते तस्मिंश्चमसो निवर्त्तते, एवमिह कारणदोषज्ञानं दोषविषयमपि. १५ दोषाणामयथार्थशानजननस्वभावत्वात्तस्य ज्ञानस्य प्रामाण्यं बाधते, तदुक्तम् (३) दुष्टकारणबोधे तु जाते ऽपि विषयान्तरे । अर्थात्तुल्यार्थतां प्राप्य बाधा गोदोहनादिवदिति ।। (१) शाबरभाष्ये अ. १ पा. १ प्सू. ५ । (२) श्लोकवार्तिके सू. २ श्लो. ६३ । तस्मादिति । तस्मात बोधस्वभावानु. बन्धि ज्ञानानामौत्सर्गिकं प्रामाण्यमिति हेतो. बुद्धः प्रमाणता विषयतयात्वं प्राप्ता अवगता अर्थान्यथात्वज्ञानेन हेतूत्थोषज्ञानेन च अपोद्यते बाध्यते हत्यर्थः । (३) श्लोकवार्तिके सू २ श्लो. ६८ । ननु साक्षाद्विपर्ययज्ञानेन परेण पूर्वस्य बाधः उभयो समानविषयत्वात् यत्र तूत्तरं कारणदोषविषयं भवति तत्र भेदान्न बाधा युक्त इत्यत आह दुष्टेति । अयं भावः यद्यपि दुष्टकारणबोधे विषयभेदः पीतशङ्खादिवि. अमेषु तथाप्यर्थात् तुल्यार्थतां प्राप्य बाधो भवत्येव । शवे हि पीत इति विदिते पर तश्व ज्ञानकारणदेोषेऽवगतेऽर्थात पीतिमा शसस्य प्रतिक्षिप्तो भवति, यत्कारणाधीनात्म लाभ हि यत्कार्यं तदोषे दुष्यति एष च ज्ञानस्य देोषः यदन्यथास्थितस्यान्यथाप्रकाश. नम् । अतः कारणदोषावगमेऽर्थान्यथात्वमेवावगतं भवति । यथा दर्शपूर्णमासयोः क्रत्वर्थेन चमसेन अपां प्रणयने विहिते 'गोदोहनेन पशुकामस्य प्रणयेत' इति पुरुषार्थेन गोदोहनेन क्रत्वर्थस्य चमसस्य बाधः तत्र क्रतूपकारः चमससाध्यः पशुः गोदोइनसाध्य इति विषयभेदेऽपि अर्थात्तुल्यार्थतया बाधः । गोदोहन द्रव्यम् न हि तत् क्रियामना. नित्य फलं. जनयितुं समर्थमिति यां कांचित्क्रियामाश्रयतया समीहमान सन्निहित
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy