________________
प्रमाणप्रकरणम्
१५३
यत्र पुनरिदमपवादद्वयमपि न दृश्यते तत्र तदौत्सर्गिक प्रामाण्यमनपोदि. तमास्ते इति न मिथ्यात्वाशङ्कायां निमित्तं किं चित् , यदाह (१)--
दोषज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका । इति । तथा हि--
कश्चिदुत्पन्न एवेह स्वसंवेद्यो ऽस्ति संशयः । स्थाणुर्वा पुरुषो वेति को नामापहनुवीत तम् ।। हठादुत्पद्यमानस्तु हिनस्ति सकलाः क्रियाः । स्वभायोपरिरम्भे ऽपि भवेन्मातरि संशयः ।। विनाशी संशयात्मेति पाराशर्यो ऽप्यभाषत । निायं लोको ऽस्ति कौन्तेय न परः संशयात्मन ॥ इति । यत्रापि क चिद्बाधकप्रत्यये संशयो जायते तत्रापि तृतीयज्ञानापेक्षणाना. नवस्था, न च स्वतः प्रामाण्यहानिः यत्र प्रथमविज्ञानसंवादि तृतीयज्ञानमुत्प. द्यते तत्र प्रथमस्य प्रामाण्यमौत्सर्गिकं स्थितमेव, द्वितीयविज्ञानारोपितालीककालुष्यशङ्कानिराकरणं त्वस्य तृतीयेन क्रियते न त्वस्य संवादात्प्रामाण्यम , यदि तु द्वितीयज्ञानसंवादि तृतीयं ज्ञानं तदा प्रथमस्याप्रामाण्यम् , तच्च परत इष्ट. ९५ मेव, द्वितीयस्य तु ज्ञानस्य न तृतीयसंवादकृत प्रामाण्यम् अपि तु सङ्कल्प्यमान. कुशङ्काऽऽचमनमात्रे तस्य व्यापारः, उक्तं च(२)
एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः ।
प्रार्थ्यते तावतैवैकं स्वत: प्रामाण्यमश्नुते ।। इति । क्रत्वर्थमपां प्रणयनं गृहातीति तदाश्रितेन पशवो भावयितव्या इति शास्त्रार्थोऽवतिष्ठते एवं च तेनैव ऋत्वर्थमपां प्रणयनं सिद्धमिति चमसो निवर्तते एवमनापीति न दोषः ।
(१) श्लोकवार्तिके सू. २ श्लो. ६० । दोषज्ञाने इति । 'स्वत एव हि तत्रापि दोषाज्ञानात्प्रमाणता' इति पूर्वार्द्धम् । ननु प्रमाणेन सता तृतीयेन बाधक बाध्यते तदेव तु कथं प्रमाणमत आह स्वत इति । सर्व खलु विज्ञानजातं स्वत एव प्रमाणमविज्ञाय. मानदोषम् तथा च तृतीयम् अतस्तेन बाधकबाधने कृते भवत्याद्यस्य मानतेति । नन्व. सत्स्वपि दोषेषु दोषाशङ्का यथा आदिमे जाता एवमन्तिमेऽपीति प्रामाण्यं नावतिष्ठेते. त्यत माह-दोषेति । अयमभिप्रायः यावद्धि दोषाणामभावो नावधार्यते तावत् प्रमाणे. तरसाधारणधर्मदर्शिनी भवत्याशङ्का प्रमाणवती दोषाभावावधारणे तु जाते तानाशकमानस्याभावविरोध एवेत्यर्थः ।
(२)श्लोकार्तिके सू. २ श्लो. ६० । एवं त्रिचतुरैरेव ज्ञानर्दोषाभावसिद्धन ततोऽधिका मतिः प्रार्थनीया प्रामाण्यसिद्धये येनानवस्था भवेत् यावदेव तु तृतीयं
२० न्या०