________________
१५४
न्यायमअर्याम् वेदानामपौरुषेयतयापि स्वतः प्रामाण्यनिरूपणम्तदेवं सर्वप्रमाणानां स्वतः प्रामाण्ये सिद्धे समानन्यायतया शब्दस्यापि तथैव प्रामाण्यं भवति, न च नैसर्गिकमर्थासंस्पर्शित्वमेव शब्दस्य स्वरूपमिति परीक्षितमेतत् , किं त्वर्थबोधजनकत्वात्तस्य नैसर्गिके प्रामाण्ये सति पुरुषदो. षानुप्रवेशकारितः क चिद्धि विप्लवः, तदुक्तम् , 'शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितिः'(१) तत्र पौरुषेये वचसि गुणवति वक्तरि तद्गुणापसारित दोषतया तत्प्रामाण्यमौत्सर्गिकमनपोदितं भवति न तु गुणकृतं तत्प्रामाण्यम नङ्गत्वात्प्रामाण्ये गुणानाम् , बोधकत्वनिबन्धनमेव तदित्युक्तम् , वेदे तु प्रणेतुः पुरुषस्याभावात दोषाशङ्केव न प्रवर्तते वक्त्रधीनत्वाद्दोषाणाम , न च बाधकप्रत्ययो ऽद्य यावद्वेदार्थे कस्य चिदुत्पन्न इति निरपवादं वेदप्रामा. ण्यम् , आह च(२)
तत्रापवादनिर्मुक्तिर्वक्त्रमावाल्लघीयसी।
वेदे तेनाप्रमाणत्वं न शङ्कामधिगच्छतीति ।। तदिदमुक्तं तत्प्रमाणं बादरायणस्यानपेक्षत्वादिति(३)। ९५*गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात् ।
अपौरुषेयं सत्यार्थमिति"युक्तं प्रचक्षते । गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् । अपौरुषेयं सत्यार्थमित्ययुक्तं तु मन्वते ॥ । न हि पुरुषगुणानां सत्यतासाधनत्वं वचसि खलु निसर्गादेव सत्यत्वसिद्धिः । गुणमपि नरवाचां विप्लवाधायिदोषप्रशमनचरितार्थ सङ्गिरन्ते गुणज्ञाः ॥
चतुर्थ वा ज्ञानमुत्पन्नं तावदेवैकं पूर्वमुत्तरं वा निरपवाद स्वतः प्रामाण्यमापद्यत इत्याह एवमिति ।
(१) श्लोकवार्तिके सू. २ श्लो. ६२ । शब्दे वक्त्रधीना एव दोषा न स्वाभा. विका इति वेदे वक्तुरभावात् स्वतः प्रामाण्यं निरपवादमेवावतिष्ठते इति भावः ।
(२) श्लोकवार्तिके सू. २ श्लो. ६८ । अकर्तृके वेदे निराश्रया दोषाः शङ्कामपि नाधिरोहन्ति इति अप्राण्यशद्वैव नादेति । औत्सर्गिकस्य प्रामाण्यव्यापवादभूतमप्रा. माण्यं तनिर्मुक्तिवेंदे लघीयसी न पुंवाक्यवद् गुणापेक्षितया गुर्वी वस्तुतस्तु पुंवाक्येष्वपि न गुणापेक्षं प्रमाण्यमिति भावः ।
(३) जैमिनिसूत्रम् । अ.१. पा. १. सू५ !